पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शब्दादजन्यधीवृत्तिविषयो दृश्यमिष्यते ॥ २७ ॥ शद्धतब्छयोरेवं व्यभिचारो यतस्तयोः । शब्दजन्यैकधीवृत्तिगोचरत्वं मतं द्वयोः ॥ २८ ॥ सप्रकारकधीवृत्तिविषयत्वं तदस्तु वा। कश्चिद्धमस्ति सोपाख्यः प्रकारो वृतिगोमतः ॥ २९ ॥ न निष्प्रकारकज्ञानविषये शुद्धचिद्धने । व्यभिचारों न वा तुच्छे निरुपाख्यप्रकारगे ॥ ३० ॥ चैतन्यविषय-त्वं वा चित्सम्बन्धित्वरूपधृक् । न चिति व्यभिचारोऽस्य सम्बन्धस्याप्यभावतः ।॥३१॥ यद्दा स्वव्यवहारे स्वातिरिक्तायाः स्वसंविदः ।

दृश्यत्वहेतूपपत्तिः । मित्यादिशब्दजन्यवृत्तिविषये तुच्छे व्यभिचारस्य दुरुद्धरत्वातू एवं स ति शुद्धस्य वेदान्तजन्यवृत्तिविषयत्वेपि न तत्र व्यभिचार: तु(१)च्छशु द्धयोः शब्दाजन्यवृत्तिविषयत्वानभ्युपगमात् इति द्वयोरर्थः॥२७॥२८॥ लक्षणान्तरमाह-* सप्रकारकेति ? द्वाभ्यां ॥ २९ ॥३० ॥ लक्षणान्तरमाह - ‘‘ चैतन्येति' । यथाकथञ्चिञ्चित्सम्वन्धित्वरूपं हेतुः तश्च न चैतन्ये अभेदेन भेदनान्तरीयकस्य सम्बन्धस्याभावाद तो न व्यभिचार इत्यर्थः ॥३१॥ लक्षणान्तरमाहः -* यद्वेति त्रिभि: । खव्यवहारे खातिरिक्तसंविदपेक्षानियतिरूपं दृश्यत्वं हेतुः संविच्छब्देन च विषयाभिव्यक्त नृत्यभिव्यक्त वा शुद्धं वा चैतन्य

(१) शब्दज्ञानानुपातौ वस्तुश्शून्यी विकल्प द्रति यातञ्जलसूत्रीकविकल्पा ख्यशब्दजन्य द्वसिविषयस्तुच्छ', व्रन्नापि “फलत्र्याप्यत्वमेवास्य शास्त्राकृििर्नराक्षत म । ब्रधाण्यज्ञाननाशाय ततिव्याप्तिरिहिष्यते’ इत्युक्तरीत्या श्रुतिजन्यवृतिविषय इति ह वसत्त्वात्र व्यभिचार इति भावः