पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/११९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{ ११५ सतो ममृता । अनन्तब्रह्मशब्दौ तद्वाक्यं चाखण्डतत्परम् ॥ ३० ॥ एकत्वभेदाभावादेः स्वरूपत्वेन वस्तुतः । न विशिष्टपर-त्वं स्यादुक्तवाक्यस्य कर्हि चित्॥३१॥ संसर्गाविषयेऽप्यस्त्याकाङ्कादीनां सुसम्भव अनन्तादिशब्दसामञ्जस्यमप्येवमेवत्याह--* सर्वत ?” इति। ननु तेषामैक्यभेदाभावादिविशिष्टार्थपरत्वे वेदान्तमात्रस्याखण्डार्थ स्वासिद्धिः सत्यशुद्धान्यमिथ्याविशिष्टार्थपरत्वे प्रामाण्यायोग इ स्याशङ्कक्यभेदाभावादीनां खरूपत्वेन विशिष्टपरत्वस्यैवाभावात् भेदाभावादेः कल्पितप्रतियोगितया कल्पितत्वे सत्यादिपदवद्विशि ष्टार्थाभिधानद्वारा खरूपपरत्वेन प्रामाण्योपपत्तेरित्यभिप्रेत्याह

  • एकत्वेति ' ॥ ३१ ॥

॥ दृष्टान्ते साध्यवैकल्यादीनां परिहार: ॥ नन्वखण्डार्थसाधका हेतवः प्रतिकूलतर्कपराहता: तथा हि प क्षदृष्टान्तलक्षणमैक्यपरवाक्यं यदि संस्पृष्टार्थ न स्याद्वाक्यमेव न स्यादाकाङ्कयोग्यतासत्तिमत्त्वाभावात् आकाङ्कन हि अभिधानाप र्यवसानं तश्च येन विना यस्य न स्वार्थान्वयानुभावकत्वं तस्य त देवापय्यैवसानं, सन्निधिस्त्वव्यवधानेनान्वयप्रतियोग्युपस्थितिः यो ग्यता चैकपदार्थसंसर्गे अपरपदार्थानेष्ठात्यन्ताभाधप्रतियोगिता वच्छेदकधर्मशून्यत्वै नैतत्रयं संसर्गाविषये सम्भवतीत्याशङ्का परि हरति-* संसर्गेति ?। एतदुक्तं भवति अखण्डार्थेप्येतत्रि तयसम्भवोऽस्ति तथा हि निराकाङ्कयोरपि यत्किञ्चिदंन्वयानुभाव कतया तात्पर्यविषयान्वयाननुभावकत्वमेवाका चान्वयाँशो व्यर्थः येन विना यस्य तात्पर्यविषयाननुभावकत्वमि