पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेदश्रुतीनामन्यपरत्वम् । १३३ पर्युदासोऽस्ति नेतीति श्रुत्या सर्व निषिध्यते ॥९४॥ द्वा सुपर्णेतिवेदार्थो बुद्धिजीवपरत्वतः । न जीवब्रह्मणोभेदस्तथा पैग्येऽपि वर्णनात ॥ ९५ ।। आत्मैवेदमिति श्रौतं ब्रह्मसार्वात्म्यतत्परं । वाक्यं तद्विश्वमिथ्यात्वे पर्यवस्यति सर्वथा ॥ ९६ ।। मिथ्यात्वब्रह्मसत्वात्मबहौक्यानां श्रतेर्गिरा । सिद्धत्वान्नाऽत्र कस्याऽपि सामथ्यै तन्निषेधने ॥ ९७ ।। अविद्यासिद्धसाक्षित्वाद्यनुवादेन निर्गुणे । श्रुतीनामस्ति तात्पर्य ताटस्थ्यद्वारतो मतम् ॥ ९८ ॥ अन्यशेषतथा नास्ति सार्वेइयादिनिवेदने । नेतीति चाप्साया: प्रसन्क्तसर्वेनिषेधकतया विशेषपरिशेषायोगेन प र्युदासस्याऽऽश्रयितुमशक्यत्वादित्यर्थः ॥ ९४ ॥ द्वा सुपर्णेति वा क्यस्य न भद्परत्वमित्याह-* द्वेति ॥ ९५ ॥ 'स एवेदं स् धै'मात्मैवेदं सर्वमित्यादेस्तात्पर्यमाह--“आत्मेति' ' ॥९६ ॥ वेि श्वमिथ्यात्वब्रह्मसत्वादीनां ज्ञाननित्रत्र्यत्वादिनाऽऽक्षिप्तानां न केना ऽपि निषेढुं सामथ्र्यमित्याह --* मिथ्यात्वेति । सत्यस्य ज्ञा नादनिवृत्तेः असत्यस्याधिष्ठानत्वायोगातू भेदे सार्धात्म्यायोगाचे त्यर्थः ॥ ९७ ॥ नन्वौपनिषदस्य ब्रह्मणः सार्वश्यादिकमनुमानादि सिद्धमित्याशङ्काचिद्यासिद्धसाक्षित्वाद्यनुवादेन तटस्थलक्षणद्वा रकब्रह्मपरतया गुणपरत्वाभावादू गुणनिषेधतीकपपत्तेमैवमित्याह

  • अविद्येति ॥ ९८ ॥