पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [२ परिच्छेदे प्रतिबन्धक्षये पुसः सम्बन्धग्रहणं विना । शब्दाज्ज्ञानं धियोऽशुद्धिः प्रतिबन्ध इहेरितः ॥ ३१ ॥ निष्प्रकारमपि ज्ञानं निर्विशेषात्मगोचरं । जायते शंसयोच्छेदि वेदान्तैकप्रमाणज्जं ॥ ३२ ॥ तस्माद्वराधकसद्भावात्संाधकाभावतस्तथा । सगुणत्वे परं ब्रह्म निर्गुणं सिद्धमञ्जसा ॥ ३३ ॥ षग्रहश्च दुरुषविशेषस्य भवति न सर्वस्य पुरुषगतो विशेषश्धान्त:क- रणशुद्धिरूप: प्रतिबन्धाभाव: अन्त:करणाशुद्धिरुपस्य पापस्य च प्रतिबन्धकत्वं 'ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मण'इत्यादिशा खसिद्धं तथा च प्रतिबन्धक्षये विनाऽपि सम्बन्धं शब्दादात्मसा क्षात्कार इत्यभिप्रेत्याह-“ प्रतिबन्धक्षय ' इति ॥ ३१ ॥ ननु निर्धारितैककोटिप्रकारकनिश्चयं प्रत्येव धर्मिज्ञानाधीनवि चारस्य जनकत्वातू कथं विचारसभ्रीचीनवेदान्तवाक्यजन्यज्ञानस्य निष्प्रकारकत्वं कथं वा तादृग्ज्ञानस्य जनिरित्याशङ्काह -* नि एप्रकारमिति । एतदुक्तं भवति संशयनिवृत्तिक्षमज्ञानस्यैव विचारफलत्वातू । तस्याश्च विरोधिकोटिप्रतिक्षेपकोपलक्षितधर्मि झानादप्युपपत्तेर्न तद्यथै सप्रकारकत्वनियमः । न च गौरवं प्रमा णवतो गौरवस्थ न्याय्यत्वातू न च निर्विशेषविषयकस्य ज्ञानस्य निष्प्रकारकत्वे निर्विशेषत्वासिद्धया ततू सिद्धयथै विशेषाभावरूप विशेषविषयत्वंस्यावश्यकत्वमिति वाच्यं बिशेषाभावस्य खरूप तया तत्स्फूत्तौ प्रमाणानपेक्षत्वात् अखण्डार्थसिद्धयनुकूलपृथक्झा तपदार्थोपस्थितिविषयमात्रेण विशिष्टव्यवहारोपपत्तेरिति ॥ ३२ ॥ फलेितमुपसंहरांत - ** तस्मादिति ? ॥ ३३ ॥ ॥ ब्रह्मणो निर्गुणत्वे प्रमाणोपपत्तिः ॥