पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कल्पितवस्तु सापेक्षत्वस्यापि काल्पनिकत्वम् । १६७ कचिदाविद्यका सा चेदपेक्षा तेन का क्षतिः ॥ ९८ ।। अविद्याविनिवृत्तिश्च जीवब्रह्मैक्यमेव वा । अपेक्षते प्रतीतौ तत्सापेक्षत्वं हि मायिकं ॥ ९९ ।। तात्विके निरपेक्षत्वे नविरोधोस्ति तावता । न हि काल्पनिकं किञ्चिद्वस्तुतत्वमपि स्पृशेत् ॥ १०॥ चैतन्ये कल्पिताः सर्वे ये विरोध्यनुरोधिनः । तेषां सापेक्षताप्येवं कल्पिता चिद्धने पदे ॥ १ ॥ सापेक्षस्थास्तित्वस्य निरपेक्षब्रह्मव्यक्तयादिरूपताया दर्शनादित्या शङ्का समाधत्ते -* निरपेक्षस्वरूपस्येति ' त्रिभिः । एतदुक्तं भवति अविद्यानिवृत्तिजीवग्रहौक्ययोः प्रतीतौ सापेक्षत्वस्याऽऽवि . नसत्ताकसत्तादिजातौ तु सापेक्षत्वस्य काल्पनिकत्वातू नीलतर त्वादेव्यैक्तिरूपत्वाििसद्धौ हेतोरभावातू अर्थप्रकाशात्मकज्ञानस्य ण्येवमेव तथा च तत्त्वतो निरपेक्षस्य सामानाधिकरण्यासिद्धा न तकभासता व्याप्तिसिद्धेरत एवैक्यस्याखरूपत्वे अद्वैतहानि र्मिथ्यात्वे भेदस्य सत्यत्वप्रसङ्ग(१)इति निरस्तं ऐक्यस्य ब्रह्मभेदान ङ्गीचकारादिति ॥ ९८ ॥ ९९ ॥ २००० ॥ सिद्धान्तरहस्यमाह-- चैतन्यइति ? ॥ १ ॥ ( १ ) यच घट्धास्तं तत्र तद्दिरीधि तज्ज्ञानाबाध धथा शुक्तावरुप्यत्व' यत्र त दैक्य' बाधं तत्रतझेदस्तञ्जज्ञानाबाधा: यथा दूरस्थ वनस्यत्योर्भेद इति वा यत्र यद धस्त' तत्र तद्दिरीधि ता त्वि कं यथा बृश्यनृतत्वस्याधस्तत्व सत्यत्व' ता विकमिति वा वाप्तेरिति शेषः ।