पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेदपञ्चकेऽनुमानप्रामाण्यनिरासः । १७७ अस्ति तेन न जीवानां मिथो भेदो मनागपि ॥ ३२ ॥ एवं जडेशभेदेऽपि भेदे च जडजीवयोः । तात्विकें न प्रमाणं स्यात्प्रोक्तदोषानतिक्रमात् ॥ ३३ ॥ परिच्छिन्नत्वजन्यत्वजडत्वोपाधिभावतः । स्यादप्रयोजकत्वाच हेतोरनुमितिवृथा ॥ ३४ ॥ स्वप्रकाशतया सर्वप्रत्यये विषयत्वतः । ब्रह्मसिद्धावपि श्रौती गीरज्ञाननिवर्तिका ॥ ३५ ॥ तत्वादित्याह-* मिथ्याभूतस्येति' ॥ ३२ ॥ ॥ जीवभेदानुकूलतर्कभङ्गः ॥ एवं जडेशभेदेजडजीवभेदे च तात्विके प्रमाणं नास्ति ब्रह्म जीवो वा अनात्मप्रतियोगिकधर्मिशानाबाध्यभेद्वान् पदार्थत्वाद्धटवतू ब्रह्मा जी वो वा घटप्रतियोगिकधर्मिझानाबाध्यभेदवान् घटासम्बद्धकालसम्ब ििन्धत्वात् तदसम्बद्धदेशसम्बन्धित्वातूतजनकजन्यत्वातू पटवत्तू ब्र ह्या जीवो वा जडप्रतियोगिकधर्मिझानाबाध्यभेद्वान् जडानात्मकत्वात यदेवं तदेवं यथा दूरस्थवनस्पत्योरेक इत्यादिषु पूर्वोक्तदोषानतिवृत्तेः परिच्छिन्नत्वस्य जडत्वस्य जन्यत्वस्य चोपाधित्वातू अप्रयोजकत्वा यभिप्रेत्याह-* एवमिति ? ॥ ३३ ॥ ३४ ॥ यद्यपि सर्वजडाधिष्ठानत्वेन सर्वप्रत्ययगोचरत्वै ब्रह्मणास्तथापि पूर्णानन्दत्वादिरूपेण वेदैकगम्यत्वमित्याह-“स्वप्रकाशतयेति'। स्वप्रकाशत्वेन सर्वप्रत्ययवेद्यत्वेन च ब्रह्मासिद्धावपि सविलासाञ्चा ननिवर्तकशानाय वेदान्तसाफल्यस्य बहुधाऽभिधानादित्यर्थः ॥ ३५ ॥