पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृत्तीनामझाननिवर्तकत्वनिरूपणम् । आवृतिक्षत्यनिर्मोक्षबाधानामुपपत ॥ ५७ ॥ अवस्थावदभिन्नैवावस्थाऽऽज्ञानात्मिका मता । अज्ञानैक्यं तु सवेत्राऽस्त्यनुस्यूतैकरूपतः ॥ ५८ ॥ अनेकाज्ञानपक्षे तु न शङ्कोदेति मन्मते । एकेनैव विनाशेपि व्यवस्था प्रागभाववत् ॥ ५९ ॥ मज्ञानाििभन्नत्वे एकाज्ञानपक्षक्षतिः भिन्नत्वे च साक्षाज्ज्ञानेन निवृ त्तिभ्रमाद्युपादानत्वं च न स्यात् तेषामिव रूप्यस्येवोपादाननाशं विना नाशप्रसङ्गश्च शुक्तयशानं नष्टमित्यनुभवविरोधश्चेत्याशङ्कयाह “अवस्थेति” । अज्ञानावस्थाया अक्षानत्वेन न झानसाक्षान्निवत्यै त्वानुपपत्तिः । यत्त्ववस्थाविशेषाणामिव रूप्यस्यैवोपादाननिवृत्ति विना निवृत्त्यापादनं तदयुक्त अज्ञानएव झानस्य साक्षाद्विरोधाव धारणेनाज्ञानावस्थायास्तदभिन्नाया ज्ञानसाक्षाश्चित्र्यत्वानर्हन्वातू न तु रूप्यादीनां अनीदृक्त्वादिति तात्पर्यार्थः ॥५८॥ नन्वनेकाशानपक्षे एकया वृत्त्या सर्वतद्ज्ञानस्य निवृत्तिरुतैक तदशानस्य, आद्ये पुन: शुक्तः कदाप्यप्रकाशो न स्यात् अन्ये वृत्ति काले ऽपि प्रकाशो न स्यात् एकस्यावरणस्य निवृत्तावप्यावरणान्तरा निवृत्तेरिति चेन्मैवं, एकया वृत्त्यैकाझाननाशेोपि तयैवावरणान्तराणां प्रतिरुद्धत्वाद्यावत्सा तिष्ठति तावत्प्रकाशस्तस्यामपगतायां पुनरप्र नमेकमेव प्रागभावं नाशयति तन्नाशरूपेणोदयात् प्रागभावान्तर निबन्धनमझातत्वादिव्यवहारं च प्रतिबभ्राति तथा ममाप्येकं ज्ञान मेकमेवाज्ञानं निवर्तयति अशानान्तरनिबन्धनं च प्रयोजनं प्रतिब भ्रातीति िकमनुपपन्नमित्यभिप्रेत्य परिहरति-“अनेकेति' ॥५९॥ . ॥ वृत्तीनामज्ञाननिवर्तकत्वनिरूपणम् ।।