पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्वज्ञस्याऽऽज्ञानाश्रत्वोपपत्तिः । सर्वज्ञत्वं विशिष्ट स्यान्न तदज्ञानमन्तरा । स्वतोऽसङ्गतयाऽसङ्गश्रुतर्नास्ति विरोधिता ॥ ६८ ॥ स्वरूपतः प्रमाणैर्वा सर्वज्ञत्वं द्विधा स्थितं । तचोभयं विनाऽविद्यासम्बन्धं नैव सिद्यति ॥ ६९ ॥ जीवाश्रिताप्यविद्या स्वीकृता वाचस्पतेर्मते । च विशिष्ट एव ' सार्वेइयं *तुरीयं सर्वद्दक्सदेति ' शुद्ध स्यैव सर्वज्ञत्वोक्तरित्याशङ्का सर्वदृक्पदेन सर्वेषां दृग्भूतं चै तन्यमित्युच्यते न तु सर्वशं तुरीयं तस्माद्विशिष्ट एव सार्वश्यं त ऋचाविद्यां विना न सम्भवतीत्यविद्यासिद्धिरित्यभिप्रेत्याह-* स वैज्ञत्वमिति” । ‘अ(१)सङ्गेह्ययं पुरुष'इत्यसङ्गत्वश्रुतिरपि स्वत : सङ्गभावविषयत्वेनोपपद्यते इत्याह -* स्वतइति ? ॥ ६८ ॥ सर्वज्ञो हि प्रमाणत: स्वरूपझप्त्या वा तत्र प्रमाणस्य भ्रान्तश्च अवेि द्यामूलत्वातू असङ्गस्वरूपझतेश्व अविद्यां विना विषयासङ्गतेरि त्यत्र वृद्धसमतिमाह-* स्वरूपत इति ? ॥ ६९ ॥ ॥ सवैज्ञस्याज्ञानाश्रयत्वोपपतिः ॥ मतान्तरमाह-“जीवाश्रितेति'| ननु जीवाश्रिताऽविद्या त त्प्रतिबिम्बितचैतन्यं वा तद्वहैिंछन्नचैतन्यं वा तत्कल्पितभेदं च जीव स्तथा चान्योन्याश्रय इति चेन्न किमयमन्योन्याश्रय उत्पत्तौ झप्ती स्थितौ वा, नाद्यः अनादित्वादुभयोः, अज्ञानस्य चिद्रास्यत्वेपि चित: स्वप्रकाशत्वेन तदभास्यत्वातू, न तृतीय: स किं परस्पराश्रितत्वेन वा परस्परसापेक्षस्थितिकत्वेन वा स्यातू तन्न, उभयस्याप्यसिद्धेः ( १ ) छ० ४ । ३ । १६ । )