पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१०

पुटमेतत् सुपुष्टितम्
काव्यमाला ।

शिवश्रिये श्रीचरमो जिनेशो भूयादभिज्ञाननिभेन नूनम् ।
स्तम्बेरमारातिरवाप्तवान्किं मृगेन्द्रतां यत्पदपर्युपास्तेः ॥ ८ ॥
श्रीवर्धमानः स्तात्सिद्ध्यै वर्धमानसुखप्रदः ।
सिद्धार्थसार्थसिद्धार्थवंशे मुक्तामणिप्रभः ॥ ९ ॥
चि[१]दानन्दद्रुकन्दाय सर्वातिशयशालिने ।
नमः सर्वज्ञसङ्घाय तमःस्तोमांशुमालिने ॥ १० ॥
भाषा सुभाषां मे दद्याद्भूरिभूषणभासुरा ।
सिन्दूरपूरन्यत्कारकारिहारिकराम्बुजा ॥ ११ ॥
श्रीइन्द्रभूतिं वसुभूतिभूतं पृथ्वीसुतं भूमिपतिप्रपूज्यम् ।
श्रीगौतमाख्यं गणधारिमुख्यं वन्दे लसल्लब्धिसुलक्ष्मिगेहम् ॥ १२ ॥
शत्रुंजयादिसत्तीर्थकरमोचनकारकम् ।
प्रतिवत्सरषण्मासजीवामारिप्रवर्तकम् ॥ १३ ॥
श्रीवर्धमानसर्वज्ञसमानमहिमाम्बुधिम् ।
श्रीहीरविजयाह्वानसूरीन्द्रं समुपास्महे ॥ १४ ॥ (युग्मम्)
श्रीमत्सुसाधुश्रीवन्तनन्दनं जननन्दनम् ।
तपागणपयोजन्मपयो जन्म सुहृत्त्विषम् ॥ १५ ॥
सूरि[२]श्रीविजयानन्दगुरुं गुरुगुणैर्गुरुम् ।
सौभाग्यभाग्यवैराग्यपरभागनिधिं स्तुवे ॥ १६ ॥ (युग्मम्)
श्रीसोमसोमविजयाभिधवाचकनायकम् ।
रङ्गद्वैराग्यसद्रङ्गरञ्जिताङ्गमुपास्महे ॥ १७ ॥
ते सज्जनाः किल भवन्तु मम प्रसन्ना
ये प्रीणयन्ति [३]जगतीजनतामनांसि ।


  1. चिद्रूप आनन्दश्चिदानन्दः, चिदानन्द एव द्रुर्द्रुमश्चिदानन्दद्रुः तस्य कन्दो
    मूलविशेषः यद्वा कं पानीयं ददातीति कंदो मेघः, चिदानन्दद्रौ कन्दश्चिदानन्दद्रुकन्दः,
    तस्मै. 'कन्दोऽब्दे सूरणे सस्यभेदे' इति हैमानेकार्थकोशः.
  2. अयं श्रीशब्दो महत्त्वप्रतिपादकः पूज्यनामादौ लोकेऽपि प्रयुज्यते.
  3. 'जगती विष्टपे भूम्याम्' इति विश्वः.