फलाढ्याः सर्वेषामुपक्कृतिकृतस्तेऽपि तरवो
यदेषां भस्म स्यात्तदपि मरुतस्ते पुनरघम् ॥ ९७ ॥
रुद्राङ्गं छगणानि(?) पङ्कजदृशामङ्गानि गाङ्गेयकं
ताम्बूलेन समागमं दृषदहो तूलं च कूलं दृशोः ।
कर्पूरेण सहाधिवासमसमं काष्ठानि कुम्भीभव-
न्पङ्कः शीर्षमवाप्य यद्विजयते सा पावकी साधना ॥ ९८ ॥
अथ प्रदीपान्योक्तयः ।
दैवादस्तं गते सूर्ये त्वं चेल्लोकैः पुरस्कृतः ।
मा दीप मलिनोद्गारैः सद्गेहानि कलङ्कय ॥ ९९ ॥
दीपो वातभयान्नीतः कामिन्या वसनान्तरे ।
निरीक्ष्य कुचसौन्दर्यमकरः कम्पते शिरः ॥ १०० ॥
तावद्दीपय दीपममुं यावद्रजनिविरामः ।
भानुश्चेदुदयाभिमुखस्तत्किं तव गुणधाम ॥ १०१ ॥
अथ दावानलान्योक्तयः ।
यस्या महत्त्वभाजो भवन्ति गुणिनो मिता धनुर्दण्डाः ।
दहतस्तां वंशालीं को वनवह्ने विशेषस्ते ॥ १०२ ॥
हे दावानल शैलाग्रवासिनः साधु शाखिनः ।
मुग्ध व्यर्थं त्वया दग्धाः प्रेरितेन प्रभञ्जनैः ॥ १०३ ॥
दुर्दैवप्रभव प्रभञ्जन जवादुद्भूतभूमीरुहा-
नेतान्सत्वगुणाश्रयानकरुणं प्लुष्यन्किमुन्माद्यसि ।
ब्रूमस्त्वां वनहव्यवाह यदमी दग्धार्धदग्धा अपि
द्रष्टव्यास्तव तु क्षणाद्विलयिनो नामापि न ज्ञायते ॥ १०४ ॥
अभ्युन्नतेऽपि जलदे जगदेकसार
साधारणप्रणयहारिणि हा यदेते ।
उल्लासलास्यललितं तरवो न यान्ति
हे दावपावक स तावक एव दोषः ॥ १०५ ॥