विध्वस्ता मृगपक्षिणो विधुरतां नीताः स्थलीदेवता
धूमैरन्तरिताः स्वभावमलिनैराशामही तापिता ।
भस्मीकृत्य सुपुष्पपल्लवफलैर्नग्रान्महापादपा-
नुन्मत्तेन दवानलेन विपिनं वल्मीकशेषं कृतम् ॥ १०६ ॥
अथ धूम्रस्य ।
कामं श्यामतनुस्तथा मलिनयत्यावासवस्त्रादिकं
लोकं रोदयते भनक्ति जनतागोष्ठीं क्षणेनापि यः ।
मार्गेऽप्यङ्गुलिलग्न एव [१]भवतः स्वाभाविनः श्रेयसे
हा स्वाहाप्रिय धूममङ्गजमिमं सूत्वा न किं लज्जितः ॥ १०७ ॥
धूमः पयोधरपदं कथमप्यवाप्य
वर्षाम्बुभिः शमयति ज्वलनस्य तेजः।
दैवादवाप्य ननु नीचजनः प्रतिष्ठां
प्रायः स्वबन्धुजनमेव तिरस्करोति ॥ १०८ ॥
अथ वायुकायाधिकारपद्धतौ वायोरन्योक्तयः ।
क्षणादसारं सारं वा वस्तु सूक्ष्मः(क्ष्मं) परीक्ष्यते ।
निश्चिनोति मरुत्तूर्णं तूलोच्चयशिलोच्चयौ ॥ १०९ ॥
वरतरुविघटनपटवः कटवश्चञ्चन्ति वायवो बहवः ।
तत्कुसुमबहलपरिमलगुणविन्यासे कृती त्वेकः ॥ ११० ॥
अतिपटलैरनुयातां सहृदयहृदयज्वरं विलुम्पन्तीम् ।
मृगमदपरिमललहरीं समीर पामरपुरे किरसि ॥ १११ ॥
तृणानि नोन्मूलयति प्रभञ्जनो मृदूनि नीचैः प्रणतानि सर्वतः ।
समुच्छ्रितान्येव तरून्प्रबाधते महान्महत्स्वेव करोति विक्रियाम्॥११२॥
ये जात्या लघवः सदैव गणनां याता न ये कुत्रचि-
त्पद्भ्यामेव विमर्दिताः प्रतिदिनं भूमौ निलीनाश्चिरम् ।
- ↑ १. 'लग्न एव जनकस्याभ्येति' इत्यपि पाठः