निर्यन्निर्झरवारिवारिततृषस्तृप्यन्ति येषां फलै-
स्ते नन्दन्तु फलन्तु यान्तु च परामत्युन्नतिं पादपाः ॥ ४८ ॥
भुक्तानि यैस्तव फलानि पचेलिमानि
क्रोडस्थितैरहह वीतभयैः प्रसुप्तम् ।
ते पक्षिणो जलरयेण विकृष्यमाणं
पश्यन्ति पादप भवन्तममी तटस्थाः ॥ ४९ ॥
विपन्नं पद्मिन्या मृतमनिमिषैर्यातमलिभिः
खगैरप्युड्डीनं रथचरणहंसप्रभृतिभिः ।
दशां दीनां नीते सरसि विषमग्रीष्मदिवसैः
कुलीनत्वादास्ते तटरुहतरुः कोऽपि तदपि ॥ ५० ॥
शाखोटशाल्मलिपलाशकरीरकाद्याः
शृण्वन्तु पुण्यनिलयो यदसौ वसन्तः
युष्मभ्यमर्पयतु पल्लवपुष्पलक्ष्मीं
सौरभ्यसंभवविधिस्तु हरेरधीनः ॥ ५१ ॥
पान्थाधार इति द्विजाश्रय इति श्लाघ्यस्तरूणामिति
स्निग्धच्छाय इति प्रियो दृश इति स्थानं गुणानामिति ।
[१]पर्यालोच्य महातरो तव घनच्छायां वयं संश्रिता-
स्तत्त्वत्कोटरवासिनो द्विरसना दूरीकरिष्यन्ति नः ॥ ५२ ॥
हिमसमयो वनवह्निर्जवनः पवनस्तडिल्लताविर्भवम् ।
हन्त सहन्ते यावत्तावद्रुम कुरु परोपकृतिम् ॥ ५३ ॥
ये पूर्वं परिपालिताः फलभरच्छायादिभिः प्राणिनो
विश्रामद्रुम कथ्यतां तव विपत्काले क्व ते सांप्रतम् ।
एताः संगतिमात्रकल्पितपुरस्कारास्तु धन्यास्त्वचो
यासां छेदनमन्तरेण पतितो नायं कुठारस्त्वयि ॥ ५४ ॥
- ↑ १. ‘यावत्तत्क्षणमाश्रयन्ति’ गुणिनः क्लान्तिच्छिदे पादपं तावत्कोटरनिर्गतैरहिगणैर्दूरं समुत्सारितः' इति पाठान्तरम्.