छायापि ते न सुलभा फलमस्तु दूरे
त्वं निष्फलो वरमहो सुखसेवनीयः ॥ १०५ ॥
रे माकन्द मरन्दसुन्दरमिदं त्वन्मञ्जरीजृम्भितं
मत्वा त्वामयमेति मुद्रितमुखः काकः कुरूपाग्रणीः ।
मान्यस्तद्भवता नचैकपिकवद्वर्णस्य सावर्ण्यतो
नो वर्णाकृतिसाम्यसङ्गिनि जने मुह्यन्ति मेधाविनः ॥ १०६ ॥
कन्दे सुन्दरता दले सरलता वर्णेऽपि संपूर्णता
स्कन्धे वन्धुरता फले सरसता कस्यापरस्येदृशी ।
एकस्त्वं सहकार खिन्नपथिकाधारः स्थितः सत्पथे
दीर्घायुर्भव साधु साधु विधिना मेधाविना निर्मितः ॥ १०७ ॥
जातो मार्गपरिश्रमव्यपगमस्तापः प्रशान्तिं गतः
संपन्नं नच मञ्जरीपरिमलैर्घ्राणस्य संतर्पणम् ।
प्राप्ता तृप्तिरनश्वरैः फलभरैस्त्वत्तस्तदापृच्छ्यते
गच्छामः सहकार सज्जन भज त्वं कल्पवृक्षश्रियम् ॥ १०८ ॥
छायामायासनाशे प्रगुणयसि नृणामुत्सवेषु च्छदानि
प्रीतौ पुष्पंधयानां मधुपिकनिकरस्त्वागते कारकाणि ।
घर्मक्लान्तार्थिसार्थक्लमशमनविधौ पाकपिङ्गं फलौघं
तत्त्वं विश्वोपकारार्पितविभवकृतानन्द माकन्दनन्द ॥ १०९ ॥
दृष्टे सति प्रविलसत्सहकारवृक्षे
किं किंशुकेष्वभिरुचिं कुरुते मिलिन्दः ।
आस्वादिते सति सरोरुहनीरपूरे
लीलालवालजलमिच्छति किं मरालः ॥ ११० ॥
वहसि बलिभुजां कुलानि मौलौ यदि सहकार तदत्र को निषेद्धा ।
परमुदयति पल्लवाञ्चलेषु स्फुरदलिभिस्तव सौरभप्रसिद्धिः ॥ १११ ॥
अर्काः केचन केचिदक्षतरवः केचिद्वयःक्ष्माभृतो
निम्बाः केचन केचिदत्र विपिने वक्राः करीरद्रुमाः ।
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१२९
पुटमेतत् सुपुष्टितम्
१२१
अन्योक्तिमुक्तावली ।