दासेरकस्य दासीयं बदरी यदि रोचते ।
एतावतैव किं द्राक्षा न साक्षादमृतप्रदा ॥ १६९ ॥
अथ दाडिमस्य
आपुष्पप्रसरान्मनोहरतया विश्वास्य विश्वं जनं
हंहो दाडिम तावदेव सहसे वृद्धिं स्वकीयामिह ।
यावन्नैति परोपभोगसहतामेषा ततस्तां तथा
ज्ञात्वा ते हृदयं द्विधा दलति यत्तेनाभिवन्द्यो भवान् ॥ १६२॥
अथ नालिकेर्यन्योक्तयः ।
प्रथमवयसि पीतं तोयमल्पं स्मरन्तः
शिरसि निहितभारा नालिकेरा नराणाम् ।
ददति जलमनल्पास्वादमाजीवितान्तं
नहि कृतमुपकारं साधवो विस्मरन्ति ॥ १६३ ॥
श्लाध्यैव नालिकेर्या गुरुतामुष्या यतः फलं विपुलम् ।
जलपरिपूरितमध्यं क्षुत्तृष्णाप्रशमनं कुरुते ॥ १६४ ॥
नालेरीइसरिच्छा इह लोए हुन्ति केइ सप्पुरिसा ।
निय वारिरक्खणट्ठा तिविहावाडी कया जेण ॥ १६५ ॥
अथ तालस्य ।
अये ताल व्रीडां व्रज गुरुतया भाति न भवा-
न्न वा कापि च्छाया कठिनपरिवारं तव वपुः ।
इयं वन्या धन्या सरसकदलीसुन्दरदला
परात्मानं न त्वं सुखयसि फलेनामृतभुवा ॥ १६६ ॥
अध्वन्यध्वनि भूरुहः फलभृतो नम्रानुपेक्ष्यादरा-
द्दूरादुन्नतिसंशयव्यसनिनः पान्थस्य मुग्धात्मनः ।
यन्मूलं समुपागतस्य मधुरच्छायाफलैः का कथा
शीर्णेनापि हि नोपयोगमगमत्पर्णेन तालद्रुमः ॥ १६७ ॥