पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१४

पुटमेतत् सुपुष्टितम्
काव्यमाला ।


धिष्ण्या निरेकि मुनिजोदयगर्जितानि
दोषाबलेन शशलाञ्छनलालितानि ।
प्रातः स एव समुदेष्यति चण्डभानु-
र्यस्योदयेन रजनिर्न विधुर्न यूयम्‌ ॥ ४८ ॥
उद्यन्त्वमूनि सुबहूनि महामहांसि
चन्द्रोऽप्यलं भुवनमण्डलमण्डनाय ।
सूर्यादृते न तदुदेति न चास्तमेति
येनोदितेन दिनमस्तमिते च रात्रिः ॥ ४९॥

येनोन्मथ्य तमांसि मांसलघनस्पर्धीनि सर्वं जग-

च्चक्षुष्मत्परमार्थतः कृतमिदं देवेन तिग्मत्विषा ।

तस्मिन्नस्तमिते विवस्वति कियान्क्रूरो जनो दुर्जनो

यद्बध्नाति दृशं शशाङ्कशकलालोके प्रदीपेऽथवा ॥ ५० ॥

पातः पूष्णो भवति महते नोपतापाय यस्मा-

त्कालेनास्तं क इह न गता यान्ति यास्यन्ति चान्ये ।

एतावत्तु व्यथयति यदालोकबाह्यैस्तमोभि-

स्तस्मिन्नेव प्रकृतिमहति व्योम्नि लब्धोवकाशः ॥ ५१ ॥
गते तस्मिन्भानौ त्रिभुवनसमुन्मेषविरह-
व्यथाश्चन्द्रो नेष्यत्यनुचितमतो नास्ति किमपि ।
इदं चेतस्तापं जनयतितरामत्र यदमी
प्रदीपाः संजातास्तिमिरहतिबद्धोद्भुरशिखाः ॥ ५२ ॥
यत्पादाः शिरसा न केन विधृताः पृथ्वीभृतां मध्यत-
स्तस्मिन्भास्वति राहुणा कवलिते लोकत्रयीचक्षुषि ।
खद्योतैः स्फुरितं तमोभिरुदितं ताराभिरुज्जृम्भितं
घूकैरुत्थितमाः किमत्र करवै किं केन नो चेष्टितम्‌ ॥ ५३ ॥

ध्वान्तं ध्वस्तं समस्तं विरहविगमनं चक्रवाकेषु चक्रे

संकोचं मोचितं द्राग्वरकमलवनं धाम लुप्तं ग्रहाणाम्‌ ।