इति ध्यात्वोपास्तं फलमपि तु दैवात्परिणतं
निदाने [१]वृङ्कोऽन्तः सपदि मरुता सोऽप्यपहृतः ॥ १८८ ॥
निर्गन्धं कुसुमं फलं कटुतरं छायापि ते कर्बुरा
बाह्यं कण्टकखर्परैः परिवृतं निःसारमन्तर्वपुः।
वृद्धिर्गृध्रपरिग्रहाय किमहो वक्तव्यमस्मात्परं
हंहो शाल्मलिपादप प्रतिदिनं के न त्वया वञ्चिताः ॥१८९]॥
छायान्वितोऽपि सरलोऽप्यतिविस्तृतोऽपि
कान्तप्रसूनविभवोऽप्यतिसुन्दरोऽपि ।
यत्त्वं फलेऽर्थिषु विसंवदसे प्रकाम-
मस्पृश्यतां भजसि शाल्मलिवृक्ष तस्मात् ॥ १९० ॥
अथ निम्बान्योक्तयः ।
दुग्धेन सिक्तो निम्बोऽयमालवालं कृतं गुडैः।
तथापि जातिवैचित्र्यात्कटुकत्वं न मुञ्चति ॥ १९१ ॥
शर्करासर्पिःसंयुक्तं निम्बबीजं प्रतिष्ठितम् ।
क्षीरघटसहस्रेण निम्बः किं मधुरायते ॥ १९२ ॥
निम्ब किं बहुनोक्तेन निष्फलानि फलानि ते ।
यानि संजातपाकानि काका निःशेषयन्त्यमी ॥ १९३ ॥
यस्मादर्थिजनो मनोभिलषितं लब्ध्वा मुदा मेदुरः
सार्धं बन्धुजनैश्चकार विविधान्भोगान्विलसोद्धुरः।
तं दैवेन विवेकशून्यमनसा निर्मूल्य चूतद्रुमं
स्थाने तस्य तु काकलोकवसतिर्निम्बः समारोपितः ॥ १९४ ॥
जइ फलभरेण नमिओ निम्बो घणछायकुसुमगन्धाढ्ढो ।
तो वायसाणजुग्गो नहु जुग्गो इयर पष्षीणम् ॥ १९५ ॥
जन्मन्तरंमि वसिओ निम्बतरू इक्खुवाडमब्भम्मि ।
ता किं होइ गुलिओ संसग्गी जइ गुणा हन्ति ॥ १९६ ॥
- ↑ 'तूलोऽन्तः' इत्यपि पाठः