अथ कण्टकारिकायाः ।
उचितं नाम नारि[१]ङ्ग्यां(?)केतक्यामपि कण्टकाः ।
रसगन्धोज्झिते किं ते कण्टकाः कण्टकारिके ॥ २४१ ॥
अथ शणस्य ।
भूर्जः परोपकृतये निजकवचविकर्तनं सहते ।
परवन्धनाय च शणः प्रेक्षध्वमिहान्तरं कीदृक् ॥ २४२ ॥
अथ धत्तूरान्योक्तयः ।
छाया कापि न पल्लवेषु सुमनःस्तोमेषु नो सौरभो-
द्गारः कोऽपि फलेषु कापि महती वार्ता न तां ब्रूमहे ।
धत्ते त्वां शिरसा तथापि हि हरस्त्यक्त्वा पुनः केतकीं
तन्नूनं कनकद्रुमात्र भवता नाम्ना जगद्वञ्चितम् ॥ २४३ ॥
धत्तूर धूर्त तरुणेन्दुनिवासभूमौ
भाले पिशाचपतिना खलु निर्मितोऽसि ।
किं कैरवाणि विकसन्ति तमः प्रयाति
चन्द्रोत्पलो द्रवति वार्धिरुपैति वृद्धिम् ॥ २४४ ॥
महेशस्त्वां धत्ते शिरसि रसराजस्य जयिनी
विशुद्धिस्त्वत्सङ्गात्कनकमयमेतत्रिभुवनम् ।
तनोति त्वत्सेवां न तु कनकवृक्ष त्वदपरः
परस्तत्को नु स्याद्यदि न सुलभीभावमभजः ॥ २४५ ॥
अथ तृणान्योक्तयः ।
जीमूतोन्मुक्तमुक्ताफलकणतुलितस्थूलसूक्ष्मोदबिन्दु-
श्रेणीपातैः प्रभूतैर्वियत इतइतो जातसेकातिरेका ।
किं च प्राचीमभीष्मोष्मकतपनमहादाहसंदोहरिक्ता
सूते यद्भूतधात्री तदिदमपि तृणं किं न वर्ण्यं सकर्णैः ॥२४६॥
- ↑ 'नारङ्गे' इति भवेत्.