पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१८

पुटमेतत् सुपुष्टितम्
१०
काव्यमाला ।

 नेन्दुः प्राप तथापि पानमथनाबन्धव्यथां तद्गतः
  सत्यं स्यादसुखक्षणेऽपि हि सुखी नूनं कलावान्पुमान् ॥ ८१ ॥
 नक्षत्राणि बहूनि सन्ति परितः पूर्णोदयान्यम्बरे
  किं तैः शान्तिमुपैति दीर्घतिमिरं किं वाब्धिरुज्जृम्भते ।
 किं स्यादार्तचकोरपारणमिदं भ्रातः सुधादीधिते
  त्रैलोक्यप्रकटप्रतापशमनः श्लाघ्यस्तवैवोदयः ॥ ८२ ॥
 क्षीणश्चन्द्रो विशति तरणेर्मण्डलं मासि मासि
  लब्ध्या कांचित्पुनरपि कलां दूरदूरानुवर्ती ।
 संपूर्णश्चेत्कथमपि तदा स्पर्धयोदेति भानो-
  र्नो दौर्जन्याद्विरमति जडो नापि दैन्याव्द्यरंसीत् ॥ ८३ ॥
 येनास्यभ्युदितेन चन्द्र गमितः क्लान्ति रवौ तत्र ते
  युज्येत प्रतिकर्तुमेव न पुनस्तस्यैव पादग्रहः ।
 क्षीणेनैतदनुष्ठितं यदि ततः किं लज्जसे नो मना-
  गस्त्वेवं जलधामता तु भवतो यव्द्योम्नि विस्फूर्जसे ॥ ८४ ॥
 उत्पत्तिः पयसांनिधेर्वपुरपि ख्यातं सुधामन्दिरं
  स्पर्धन्ते बिसबालतालसरला हारावलीमंशवः ।
 कान्ताकैरविणी तव प्रियसखः शृङ्गारसारः स्मरो
  हंहो चन्द्र किमत्र तापजननं तापाय यन्मे भवान् ॥ ८५ ॥
 यज्जातोऽसि पयोनिधौ हरजटाजूटे प्रसिद्धोऽसि य-
  द्विश्वस्योदरदीपकोऽसि विधिना सृष्टोऽसि यच्चामृतैः ।
 भ्रातः शीतमयूख सर्वमधुना म्लानीकृतं तत्त्वया
  राजीवं यदपास्य कैरवकुलं नीतं विकासास्पदम् ॥ ८६ ॥
 लब्धं जन्म सह श्रिया स्वयमपि त्रैलोक्यभूषाकरः
  स्थित्यर्थं परमेश्वरोऽभ्युपगतस्तेनापि मूर्ध्ना धृतः ।
 वृद्धिं शीतकरस्तथापि न गतः क्षीणः परं प्रत्युत
  प्रायः प्राक्तनमेव कर्म बलवत्कः कस्य कर्तुं क्षमः ॥ ८७ ॥