पृष्ठम्:अन्योक्तिमुक्तावली.djvu/२०

पुटमेतत् सुपुष्टितम्
१२
काव्यमाला ।

 तिमिरभिदुरं व्योम्नः शृङ्गं मनोभवकन्दुकं
  प्रतिपदि नवस्येन्दोर्बिम्बं सुखोदयमस्तु वः ॥ ९५ ॥

अथ द्वितीयाचन्द्रस्य ।


 ॐकारो मदनद्विजस्य गगनक्रोडैकदंष्ट्राङ्कुर-
  स्तारामौक्तिकशुक्तिरन्धतमसस्तम्बेरमस्याङ्कुशः ।
 शृङ्गारार्गलकुञ्चिका विरहिणीमर्मच्छिदा कर्तरी
  संध्यावारवधूनखक्षतिरियं चान्द्री कला राजते ॥ ९६ ॥

अथ पूर्णिमाशशधराम्योक्तयः ।


 प्राचीभागे सरागे धरणिविरहिणीक्रान्तमुद्रे समुद्रे
  निद्रालौ नीरजालौ कृतमुदि कुमुदे निर्विकारे चकोरे ।
 आकाशे सावकाशे तमसि शममिते कोकलोके सशोके
  कन्दर्पेऽनल्पदर्पे विकिरति किरणाञ्शर्वरीसार्वभौमः ॥ ९७ ॥
  निजकरनिकरसमृद्ध्या धवलय भुवनानि पार्वण शशाङ्क |
  सुचिरं हन्त न सहते हतविधिरिह सुस्थिरं कमपि ॥ ९८ ॥
  सोलकलासंपुण्णो गद्यं मा वहसि पुन्निमाचन्दो ।
  दीसेसि बीयदिवसे सारिच्छो वलयखण्डस्स ॥ ९९ ॥

(इति सामान्यविशेषचन्द्रान्योक्तयः ।)
 

अथ शनेः ।


 []न म्लापितान्यखिलधामवतां मुखानि
  नास्तं तमो न च कृता भुवनोपकाराः ।
 सूर्यात्मजोऽहमिति केन गुणेन लोका-
  न्प्रत्याययिष्यसि शने शपथैर्विना त्वम् ॥ १०० ॥

अथ ग्रहगणस्य ।


ददृशेऽपि भास्कररुचाहि न यः स तमीं तमोभिरभिगम्य तताम् ।
द्युतिमग्रहीद्ग्रहगणो लघवः प्रकटीभवन्ति मलिनाश्रयतः ॥ १०१ ॥


  1. 'न म्लानितानि' इति वा पाठः.