पृष्ठम्:अन्योक्तिमुक्तावली.djvu/२२

पुटमेतत् सुपुष्टितम्
१४
काव्यमाला ।

 वारां राशिरसौ प्रसूय भवतीं रत्नाकरत्वं गतो
  लक्ष्मि त्वत्पतितासवाप्य सुरजिज्जातस्त्रिलोकीपतिः ।
 कन्दर्पो जनचित्तरञ्जन इति त्वन्नन्दनत्वादभू-
  त्सर्वत्र त्वदनुग्रहप्रणयिनी मन्ये महत्त्वस्थितिः ॥ १०८ ॥
 लक्ष्मि त्वत्करुणाकटाक्षनिबिडां प्रीतिं विनाब्जालये
  नोद्वाहो न च मङ्गलानि भविता भूवन्विभूनामपि ।
 पश्यैतद्धरिरेष यादवगणास्तत्पुत्रपौत्राण्यहो
  दारैः संयुजिरे हरो न तनयं ब्रह्मापि न स्वां सुताम् ॥ १०९ ॥
 लक्ष्मि क्षमस्व वचनीयमिदं दुरुक्त-
  मन्धा भवन्ति पुरुषास्त्वदुपाश्रयेण ।
 नो चेत्कथं कथय पन्नगभोगतल्पे
  नारायणः स्वपिति पङ्कजपत्रनेत्रः ॥ ११० ॥
हरेः प्रदत्तापि निजेन पित्रा श्यामाङ्गकत्वादपि तं विहाय ।
वव्रे रमा यज्जनमादरेण प्रायो हि रम्यं नरमिच्छति स्त्रीः ॥ १११ ॥
स्त्रैणभूषणमणेः कमलाया यद्वदन्ति चपलेत्यपवादम् ।
दूषणं जलनिधेर्जनिकर्तुर्यत्पुराणपुरुषाय ददौ ताम् ॥ ११२ ॥
  लक्ष्मीर्यादोनिधेर्यादो नादो वादोचितं वचः ।
  बिभ्यती धीवरेभ्यो या जलेष्वेव निमज्जति ॥ ११३ ॥
 हरिभामिनि सिन्धुसंभवे कमले देवि तवैष कः प्रचारः ।
 अनुरज्यसि हा जडे जने गुणगौरे पुरुषे विलज्जसि ॥ ११४ ॥
  चञ्चलत्वकलङ्कं ये श्रियो दधति दुर्धियः ।
  ते मूढाः स्वं न जानन्ति निर्विवेकमपुण्यकम् ॥ ११५ ॥
 पद्मे मूढजने ददासि विभवं विद्वत्सु किं मत्सरो
  नाहं मत्सरिणी न चापि चपला मूर्खस्य नैवार्थिनी ।
 मूर्खेभ्यो द्रविणं ददामि विपुलं तत्कारणं श्रूयतां
  विद्वान्सर्वजनस्य पूजिततनुर्मूर्खस्य कान्या गतिः ॥ ११६ ॥