वियद्वा स्वाधीना किमुत जडता वा परिणता
मरुद्वा नो वास्यत्यथ घन शरद्वा न भविता ॥ १५५ ॥
मामभ्युन्नतमागतोऽयमिति वा कामं समासेवते
मच्छायामिति वा यदन्यविषयं विद्वेष्टि वारीति वा ।
सद्यो वर्ष वराकचातककृते नो चेदयं याचिता
याच्ञाया यदुपेक्षणं च जलद व्रीडाकरं त्वादृशाम् ॥ १५६ ॥
सुखयसि तृषोत्ताम्यत्तालूस्खलद्ध्वनिविह्वलं
कतिपयपयोबिन्दुस्यन्दैर्न चातकमागतम् ।
जलधर यदा कालात्कोऽपि प्रचण्डसमीरणः
प्रवहति तदा नायं न त्वं न ते जलविन्दवः ॥ १५७ ॥
एतान्यहानि किल चातकशावकेन
नीतानि कण्ठकुहरस्थितजीवितेन ।
तस्यार्थिनो जलद पूरय वाञ्छितानि
मा भूत्त्वदेकशरणस्य बत प्रमादः ॥ १५८ ॥
हे मेघ मानमहितस्य तृषातुरस्य
त्यक्तत्वदन्यशरणस्य च चातकस्य ।
अम्भःकणान्कतिचिदप्यधुना विमुञ्च
नो चेद्भविष्यसि जलाञ्जलिदानयोग्यः ॥ १५९ ॥
जलधर घवोऽष्टाभिर्मासैरुपार्जितजीवनो
यदुपनतवान्विश्वान्याश्वासयन्नमृतद्र्वैः ।
तदियमुदयद्वल्लीपुष्पाकुरच्छलतो दधौ
क्षितिशशिमुखी साहंकारं विभूषणविभ्रमम् ॥ १६० ॥
[१] तावन्नीतिपरा नराधिपतयस्तावत्प्रजा सुस्थिता
तावन्मित्रकलत्रपुत्रपितरस्तावन्मुनीनां तपः ।
- ↑ 'नीत्या तावदमी नराधिपतयः पान्ति प्रजाः पुत्रवत्तावन्नीतिविदः स्वकर्मनिरतास्तावदृषीणां तपः । तावन्मित्रकलत्रपुत्रपितरः स्नेहे स्थिताः संततं यावत्वं प्रतिवत्सरं जलधर क्षोणीतले वर्षसि ॥' इति पाठान्तरम्.