अस्यानन्यगतेः पयोद मनसो जिज्ञासया चातक-
स्याधेहि त्वमिहाखिलं तदपि न त्वत्तः परं याचते ॥ १९१ ॥
भूयो गर्जितमम्बुद प्रकटिता विद्युत्खमापूरितं
दूरावग्रहपृष्टनिष्ट तदलं वृष्ट्या तवातः परम् ।
निर्दग्धाखिलशालिहालिकवधूसन्नद्धनेत्रैः परं
नैराश्यादिह वर्षितव्यमधुना केदारपूरं पयः ॥ १९२ ॥
नैताः स्वयमुपभोक्ष्यसि मोक्ष्यसि नूनं पयोद कुत्रापि ।
तत्किं तत्र न मुञ्चसि मुक्ता मुक्ता भवन्ति यत्रापः ॥ १९३ ॥
अथागस्त्यन्योक्तयः ।
कम्पन्ते गिरयः पुरंदरभयान्मैनाकमुख्याः पुनः
क्रन्दन्त्यम्बुधराः स्फुरन्ति वडवावक्रोद्गता वह्नयः ।
भोः कुम्भोद्भव मुच्यतां जलनिधिः स्वस्त्यस्तु ते सांप्रतं
निद्रालुः श्लथबाहुवल्लिकमलाश्लेषो हरिः सीदति ॥ १९४ ॥
अखर्वखर्वगर्तासु विच्छिन्नो यस्य वारिधिः ।
स एव हि मुनेः पाणिरधस्ताद्विन्ध्यभूभृतः ॥ १९५ ॥
अल्पीयसैव पयसा यत्कुम्भः पूर्यते प्रसिद्धं तत् ।
ब्राह्मं तेजः पश्यत कुम्भोद्भूतः पपौ वार्धिम् ॥ १९६ ॥
अथ ध्रुवस्य ।
यदि तारकततिरपरिमिता यदि सविता यदि सोमः ।
ध्रुव भवदवलम्बेन पुनर्विचरति सकलं व्योम ॥ १९७ ॥
अथ कल्पवृक्षान्योक्तयः ।
कल्पद्रुमोऽपि कालेन भवेद्यदि फलप्रदः ।
को विशेषस्तदा तस्य वन्यैरन्यमहीरुहैः ॥ १९८ ॥
स्वर्णैः स्कन्धपरिग्रहो मरकतैरुल्लासिताः पल्लवा
मुक्ताभिः स्तबकश्रियो मधुलिहां वृन्दानि नीलोत्पलैः ।