अथ शशस्य ।
सिंहिकासुतसंत्रस्तः शशः शीतांशुमाश्रितः ।
जग्रास साश्रयं तत्र तमन्यः सिंहिकासुतः ॥ २५ ॥
अथ जम्बुकस्य ।
परिहीने सिंहेन वने फेत्कुरु रे फेरण्ड ।
तद्गन्धेऽपि यदि क्वेदं क्व भवानुन्मुखतुण्ड ॥ २६ ॥
अथ करभान्योक्तयः ।
वपुर्विषमसंस्थानं कर्णज्वरकरो रवः ।
करभस्याशुगत्यैद छादिता दोषसंहतिः ॥ २७ ॥
[१]कुमुदशबलैः फुल्लाम्भोजैः सरोमिरलंकृतां
मरकतमणिश्यामां शष्पैर्विहाय वनस्थलीम् ।
स्मरति करभो यद्वृक्षाणां चरन्मरुधन्वनां
परिचयरतिः सा दुर्वारा न सा गुणवैरिता ॥ २८ ॥
यस्मिन्नुच्चैर्विषमगहनान्तर्गता स्वादुवल्ली
स्वेच्छं भुक्ता सरलितगलेनात्मचेतोनुलग्ना ।
तत्तारुण्यं करभ गलितं कुत्रचित्प्राग्विलासो
यत्स्वाधीनं यदपि सुलभं तेन तुष्टिं विधेहि ॥ २९ ॥
करभदयिते योऽसौ पीलुस्त्वया मधुलुब्धया
व्यपगतघनच्छायस्त्यक्तो न सादरमीक्षितः ।
चलकिसलयैः सोऽपीदानीं प्ररूढनवाङ्कुरः
करभदयितावृन्दैरन्यैः सुखं परिभुज्यते ॥ ३० ॥
सरलितगलनाली कन्धरां धत्स्व धैर्या-
त्करभ लघुशमीनां ग्रासमेकं गृहाण ।
सरसमधुरपत्रास्ताः कुतः पीलुजात्यो
हरिततरुकरीरे रे मरौ याः प्ररूढाः ॥ ३१ ॥
- ↑ 'विमलसलिलैः' इति वा पाठः.