यथा भग्नः पन्था तपनन्नावगहनो
गलीनां नाङ्गानि स्पृशति च यथा सारथिरथम् ।
यथा चैते हताः स्ववलितनुवो यान्ति वृषभा
स्तथा दूरीभूतः न खलु धवलो नूनमधुना ॥ ५३ ॥
ऊढा येन महापुरा सविषमा सर्गे सदैकाकिना
सोढो येन कदाचिदेव न नये गोष्ठेन शण्ढध्वनिः ।
आसीनत्य गवाङ्गणैकतिलकस्तस्यैव संप्रत्यहो
धिक्कटं धवलस्स जातजरसो गोः पण्यनुद्धोप्यते ॥ १४ ॥
अद्रौ जीर्णदरीषु संकटसरित्तीरेषु निम्नोन्नते
ऊढा येन वृषेण धूर्बलवता यूना द्वितीयेन या ।
तां वृद्धोऽपि कृशोऽपि दुर्वह धुरं वोढुं स एव क्षमो
रप्याभड्डलकैः समेत्य बहुभिर्नाकृप्यतेऽन्यैर्वृषैः ॥ ५५ ॥
यस्यादौ व्रजमण्डनस्य वहतो गुर्वी धुरं धैर्यतो
धौरेयैः [१] प्रगुणैः कृतो न युगपत्स्कन्धः समस्तैरपि ।
तस्यैव श्लथकम्बलस्य धवलस्योत्थापने सांप्रतं
द्रङ्गैऽत्रैव जरावशार्दिततनोर्गैः पुण्यमुद्धोप्यते ॥ ५६ ॥
एतानि बालधवल प्रविहाय कामं
गोष्ठाङ्गणे तरलतर्णकचेष्टितानि ।
स्कन्धं निधेहि धुरि पूर्वधुरीणमुक्तो
नेतव्यतामुपगतोऽस्ति तवैप भारः ॥ ५७ ॥
न लिखसि खुरैः क्षोणीपृष्ठं न नर्दसि सादरं
प्रकृतिपुरुषं प्राप्याप्यग्रे न कुप्यसि [२]गोवरम् ।
वहति च धुरं धुर्यो धैर्यादनुद्धतकन्धरो
जगति गुणिनः कार्यौदार्यात्परानतिशेरते ॥ ५८ ॥
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/५३
पुटमेतत् सुपुष्टितम्
४५
अन्योक्तिमुक्तावली ।
(इति वृषभान्योक्तयः ।)