पृष्ठम्:अन्योक्तिमुक्तावली.djvu/६०

पुटमेतत् सुपुष्टितम्
५२
काव्यमाला ।

 दमीश त्वां सुधीराहमानमामि ननाजित ।
 तत्त्ववित् तततावेश्म सारमाननगेऽच्युत ॥ १४ ॥

श्रीकरी ॥ ११ ॥
 

 दं तन्यास्त्वं तमःकंसकंसशत्रो सुरैर्नतः ।
 तनुप्रभाजितस्वर्ण मुनिप्रभुर्मतो भुवि ॥१५ ॥

हलम् ॥ १२ ॥
 

 दक्षमानम मेधाविदकजातलसद्रविम् ।
 विनतं वासवैः स्फारं विमलं सूरिसिन्धुरम् ॥ १६ ॥

छत्रम् ॥ १३ ॥
 

अकं दुःखं पापं वा । 'अकं दुःखाघयोः' इति हैमानेकार्थकोशः । छिन्धि जहीहि । कीदृशस्त्वम् । गदो रोग एव शैलः पर्वतः तस्मिन् दम्भोलिर्वज्रमिव, हे घनारव घनवन्मेघवदारवो ध्वनिर्यस्य तत्संबोधनम् । हे तमोद तमांस्यज्ञानानि यति खण्डयतीति, यद्वा न ददातीत्यदः तमसः अदस्तमोदस्तत्संबोधनम्, सद्भिर्नतः सन्नतस्तत्संबोधनं हे सन्नत ॥ १३ ॥ भल्लः ॥ १० ॥ हे मुनीश, अहं त्वां आनमामीति संबन्धः । हे सुधीर सु शोभना धीर्येषां ते सुधियस्तैः राजत इति सुधीरः, यद्वा सुशोभना धीराः पण्डिता यस्य तत्संबोधनम्, हे नन, अजित, न जितः अजितः । द्वौ नकारौ प्रकृत्यर्थं सूचयतः । अपि तु अजित इत्यर्थः । अष्टकर्मभिरिति गम्यम् । हे तत्त्ववित् तत्त्वानि वेत्तीति तत्संबुद्धिः, हे तततावेश्म तता विस्तीर्णा चासौ ता लक्ष्मीश्च तस्यां वेश्म गृहं तत्संबोधनं, हे अच्युत हे अपतित । 'पतितं गलितं च्युतम्’ इति हैमः । कस्मिन् । स्मरमाननगे स्मरयुक्तो मानः स्मरमानः, यद्वा स्मरस्य मानोऽहंकारः स एव नगस्तस्मिन् ॥ १४ ॥ श्रीकरी ॥ ११ ॥ हे गुरो, त्वं दं दानं पुण्यं वा । 'दं दानं शरणं कर्म भव्यं न्यूनम किल्बिषम्' इत्यनेकार्थकोशः । तन्या इति योगः । कीदृशस्त्वं सुरैर्देवैर्नतः प्रणतः । पुनः कीदृशः । मुनीनां प्रभुः स्वामी । पुनः कीदृशः। मतो मान्यः । कस्याम् । भुवि पृथिव्याम् । हे तमःकंसकंसशत्रो तमोऽज्ञानमेव कंसः तस्मिन्कंसशत्रुर्विष्णुरिव तत्संबोधनम्, हे तनुप्रभाजितस्वर्ण तनर्देहस्य प्रभया जितं स्वर्ण येन तत्संबुद्धिः ॥ १५ ॥ हलम् ॥ १२ ॥ हे जन, त्वं सूरिसिन्धुरं सूरिषु सिन्धुरो गज इव तं आनम । कीदृशम् । दक्षम् । पुनः कीदृशम् । मेधाविन एव दकजातानि पद्मानि तेषु बोधकत्वाल्लसद्रविं स्फूर्जत्सूर्यम् । पुनः कीदृशम् । वासवैरिन्द्रैर्विनतम् । पुनः कीदृशम् । स्फारं मनोहरम् । पुनः कीदृशम् । विमलं पापमलरहितम् ॥ १६ ॥