इयं पल्ली भिल्लैरचितसमारम्भरसिकैः
समन्तादाविष्टा विषमविषबाणप्रणयिभिः ।
तरोरस्य स्कन्धे गमय समयं कीर निभृतं
न वाणी कल्याणी तदिह तव मुद्रैव शरणम् ॥ ७३ ॥
अथ वकान्योक्तयः ।
नालेनैव स्थित्वा पादेनैकेन कुञ्चितग्रीवम् ।
जनयति कुमुदभ्रान्तिं वृद्धवको वालमत्स्यानाम् ॥ ७४ ॥
एष बकः सहसैव विपन्नः शाठ्यमहो क्व नु तद्गतमस्य ।
साधु कृतान्त न कश्चिदपि त्वां वञ्चयितुं सुशठोऽपि समर्थः ॥ ७५ ॥
कलयतु हंस विलासगतिं स बकः सरसि वराकः ।
नीरक्षीरविवेकविधौ तस्य कुतः परिपाकः ॥ ७६ ॥
वकेऽपि हंसेऽपि च वासभूमिरेकैव शुक्लो गुण एक एव ।
पृथग्विधातुं पयसी तु हंसे चातुर्यमास्ते न वके वराके ॥ ७७ ॥
बकोट व्रूमस्त्वां लघुनि सरसि कापि शफरै-
स्तव न्याय्या वृत्तिर्न पुनरवगाढुं समुचितः ।
इतश्वेतश्चाभ्रंलिहलहरिहेलातरलित-
क्षितिध्रग्रावौकग्रहिलतिमि(ने)तः पतिरपाम् ॥ ७८ ॥
न कोकिलानामिव मञ्जु कूजितं न लब्धलास्यानि गतानि हंसवत् ।
न बर्हिणानामिव चित्रपक्षता गुणस्तथाप्यस्ति वके वकव्रतम् ॥ ७९ ॥
जातिस्तस्य न मानसे न शुचिभिर्वृत्तिर्मृणालाङ्कुरै-
र्न ब्रह्मोद्वहनेन निर्मलयशःप्राप्तिर्न वाचः कलाः ।
जीवन्सत्ववधेन बाह्यधवलोद्भ्राम्यत्सगर्वं पुन-
र्मिथ्यैवोन्नतकन्धरः शठबको हंसैः सह स्पर्धते ॥ ८० ॥
कस्त्वं लोहितलोचनास्यचरणो हंसः कुतो मानसा-
त्किं तत्रास्ति सुवर्णपङ्कजवनं तोयं सुधासंनिभम् ।