अत्रस्थः सखि लक्षयोजनगतस्यापि प्रियस्यागमं
वेत्त्याख्याति च धिक् शुकादय इमे सर्वे पठन्तः शठाः ।[१]
मत्कान्तस्य वियोगतापदहनज्वालावलीचन्दनं[२]
काकस्तेन गुणेन काञ्चनमये व्यापारितः पञ्जरे ॥ १२८॥
कोटिं जीव पिबामृतं ब्रज सखे शाखान्तरं वायस
आयाते दयिते मनोरथशतैर्दास्यामि दध्योदनम् ।
एतज्जल्पति यावदध्वगवधूस्तावत्पतिः प्राङ्गणे
त्रुट्यत्कञ्जुकजालकत्रुटत्रुटत्सर्वाङ्गमुज्जृम्भितम् ॥ १२९ ।।
रेरे काक वराक साकममुना पुंस्कोकिलेन ध्वनिः (नेः)
स्पर्धाबन्धमुपेयुषस्तव कथं वक्षो न याति द्विधा ।
यस्याकर्ण्य वचः सुधाकवलितं वाचंयमानामपि
व्यग्राणि ग्रथयन्ति मन्मथकथां चेतांसि चैत्रोत्सवे ॥ १३० ॥
नो चारू चरणौ न चापि रुचिरा चञ्चुर्न रुच्यं वचो
नो लीलाललिता गतिर्न च शुचिः पक्षग्रहोऽयं तव ।
क्रूराक्राङ्कितदुर्भगां गिरमिह स्थाने वृथैवोद्गिर-
न्मूर्ख ध्वाङ्क्ष न लज्जसे विसदृशं पाण्डित्यमुन्नाटयन् ॥ १३१ ॥
अनुचितफलाभिलाषी विधिनैव निवार्यते ह्यधमपुरुषः ।
द्राक्षाविपाकसमये मुखरोगो भवति काकानाम् ॥ १३२ ॥
जो जाणइ जस्स गुणे लोएसो तस्स आयरं कुणइ ।
पक्वेदरकारामे काओ निम्बोआणि चुणई ॥ १३३ ॥
अथ कुक्कुटान्योक्तयः ।
भो लोकाः सुकृतोद्यता भवत तं लब्ध्वा भवं मानुषं
मोहान्धाः प्रसरत्प्रमादवशतो माहार्यमाहार्यथाः ।
इत्थं सर्वजनप्रबोधमधुरो यामेर्धयामे सदा
कृत्वोर्ध्वं निजकंधरं प्रतिदिनं कोकूयते कुक्कुटः ॥ १३४ ॥