कवलितमिह नालं कन्दलं चेह दृष्ट-
मिह हि कुमुदकोशे पीतमम्भः सुशीतम् ।
इति विरटति रात्रौ पर्यटन्ती तटान्ते
सहचरपरिमुक्ता चक्रवाकी वराकी ॥ १४९ ॥
शतगुणपरिपाट्या पर्यटन्नन्तराले
कुमुदकुवलयानां मध्यरात्रेऽपि खिन्नः ।
उपनदि दयितायाः क्वापि शब्दं निशम्य
भ्रमति पुलिनपृष्ठे च [१]क्रवाको बराकः ॥ १५० ॥
दिनान्ते चक्रवाकेन प्रियाविरहमीरुणा ।
तथा निःश्वसितं तेन यथा नसतं पुनः ॥ १५१ ॥
एकेनार्कं प्रकटितरुपा पाटलेनास्तसंस्थं
पश्यन्त्यक्ष्णाश्रुजललुलितेनापरेण स्वकान्तम् ।
अह्नश्छेदे दयितविरहाशङ्किनी चक्रवाकी
द्वौ संकीर्णो रचयति रसौ नर्तकीव प्रगल्भा १५२ ॥
उत्कूजति श्वसति मुह्यति याति तीरं
तीरात्तरुं तरुतलात्पुनरेति वापीम् ।
वाप्यां न तिष्ठति न चात्ति मृणालखण्डं
चक्रः क्षपासु विरहे खलु चक्रवाक्याः ॥ १५३ ॥
अयं पद्मासनासीनश्चक्रवाको विराजते ।
युगादौ भगवान् वेधा विनिर्मित्सुरिव प्रजाः ॥ १५४ ॥
आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन ।
सेहिरे न किरणा हिमरश्मेर्दुःखिते मनसि सह्यमसह्यम् ॥ १५५ ॥
चक्रः पप्रच्छ पान्थं कथय मम सखे अस्ति स क्वापि देशो
वस्तुं नो यत्र रात्रिः प्रचरति विहगायेति स प्रत्युवाच ।
नीते मेरौ समाप्तिं कनकवितरणैः श्रीजगद्देवनाम्ना
सूर्ये ह्यन्तर्हितेऽस्मिन्कतिपयदिवसैर्वासराद्वैतसृष्टिः ॥ १५६ ॥
- ↑ 'चक्रवञ्चक्रवाकः' इति वा पाठः.