विश्वोपजीवोऽपि पिबत्यपो न पद्माकरे यद्यपि चातकोऽयम् ।
स्वार्थक्षयस्तस्य तृषातुरस्य लघुत्वमत्रास्ति न किंचिदस्य ॥ १८१ ॥
अथ चकोरस्य ।
चुलुकयसि चन्द्रदीधितिमविरलमश्नासि नूनमङ्गारान् ।
अधिकतरमुष्णमुनयो किमिति चकोरोऽवधारयति ॥ १८२ ॥
अथ सारसस्य
आपूर्येत पुनः स्फुरच्छफरिकासारोर्मिभिर्वारिभि-
र्भूयोऽपि प्रविजृम्भमाणनलिनं पश्यामि तोयाशयम् ।
इत्याशाशततन्तुबद्धहृदयो नक्तंदिनं दीनधीः
शुष्यत्यातपशोषितस्य सरसस्तीरे जरत्सारसः ॥ १८३ ॥
अथ टिट्टिभस्य ।
स्वचित्तकल्पितो गर्वः कस्य नाम न विद्यते ।
उत्क्षिप्य टिट्टिभः पादौ शेते भङ्गभयाद्भुवः ॥ १८४ ॥
बक चटु तपसे त्वं शाखिनि क्वापि सान्द्रे
श्रय झटिति तटिन्याष्टिट्टिभ त्वं तटानि ।
इह सरसि सरोजच्छन्नगम्भीरदेशे
ललितगतिरिदानीं रंस्यते राजहंसः ॥ १८५ ॥
अथ मयूरपिच्छस्य ।
व्यजनैरातपत्रैश्च भूत्वा पिच्छैः कलापिनाम् ।
स्थानभ्रष्टैरपि कृतं परेषां तापवारणम् ॥ १८६ ॥
अस्मान्विचित्रवपुषश्चिरपृष्ठलग्ना-
न्कस्माद्विमुञ्चसि सखे यदिवा विमुञ्च ।
हा हन्त केकिवर हानिरियं तवैव
गोपालमौलिषु पुनर्भविता स्थितिर्नः ॥ १८७ ॥
इति श्रीमत्तपागच्छाधिराजश्रीगौतमगणधरोपमगुणसमाजसकलभट्टारकवृन्दवृन्दारक-वृन्दारकराजपरमगुरुभट्टारक श्री १९ श्रीविजयानन्दसूरिशिष्यभुजिष्यपण्डितहंसविजयगणिसमुच्चितायामन्योक्तिमुक्तावल्यां स्थलचरजलचरान्योक्तिनिरूपकस्तृतीयः परिच्छेदः ॥ ३ ॥