सो सद्दो धवलत्तणं च रयणादारंमि उप्पत्ती ।
सङ्खस्स तुज्झकुटिलत्तणेण सव्वंपि पब्भट्टम् ॥ १९ ॥
अथ मत्कुणस्य ।
मन्ये मत्कुणशङ्कया जलनिधौ गत्वा हरिः सुप्तवां-
स्तन्नाभ्यम्बुरुहे प्रजापतिरभूल्लक्ष्मीश्च तद्वक्षसि ।
कैलासाचलमाश्रितः पशुपतिर्गौरी तदुत्सङ्गगा
नक्षत्रग्रहमण्डलं च सकलं येषां भयाद्भ्राम्यति ॥ २० ॥
शशिदिनकरौ व्योम्नि स्वर्गे शचीहृदयेश्वरो
धनपतिरसौ कैलासाद्रौ हरिर्मकराकरे ।
शतधृतिरयं नाभौ शम्भुः श्मशानभुवं गतो
भुजगरमणोऽधो मन्येऽहं द्रुतं किल मत्कुणात् ॥ २१ ॥
अथ खद्योतान्योक्तयः ।
जर्जरतृणाग्रमदहन्सर्षपकणमप्रकाशयन्नूनम् ।
कीटत्वमात्मतत्वात्खद्योतः ख्यापयन्भवति ॥ २२ ॥
इन्दुः प्रयास्यति विनङ्क्ष्यति तारकश्रीः
स्थास्यन्ति लीढतिमिरा न मणिप्रदीपाः ।
अन्धं समग्रमपि कीटमणे भविष्य-
त्युन्मेषमेष्यति भवानपि पूरमेतत् ॥ २३ ॥
अदृष्टिव्यापारं गतवति दिनानामधिपतौ
यशःशेषीभूते शशिनि गतधान्नि ग्रहगणे ।
तथान्धं संजातं जगदुपनते मेघसमये
यथामी गण्यन्ते तमसि पटवः कीटमणयः ॥ २४ ॥
घनसन्तमसमलीमस दशदिशि निशि यद्विराजसि तदन्यत् ।
कीटमणे दिनमधुना तरणिकरान्तरितशीतकरम् ॥ २५ ॥