पृष्ठम्:अन्योक्तिमुक्तावली.djvu/९२

पुटमेतत् सुपुष्टितम्
८४
काव्यमाला ।

  मा गा विषादमलिपोतक केतकीना-
   मन्तर्विगूढमनवाप्य मधुप्रकर्षम् ।
  लाभः स एव भवतो यदि कण्टकानां
   श्रेणीभिरक्षतशरीरतया प्रयासि ॥ ६८ ॥
  श्रियो वासोऽम्भोजे त्रिदिवसरिदम्भोजकुहरे
   हरेर्नाभीपद्मे मधु मधुकरो यः किल पपौ ।
  स दैवादुन्मीलत्तपनकरतापव्यतिकर-
   व्यथाकम्प्रः संप्रत्यतरुमरुभूमौ विचरति ॥ ६९ ॥
  आयाति याति पुनरेति पुनः प्रयाति
   पद्माङ्कुराणि विचिनोति धुनोति पक्षौ ।
  उन्मत्तवद्रमति कूजति रारटीति
   कान्तावियोगविधुरः किल चञ्चरीकः ॥ ७० ॥
 अयं नीलस्निग्धो य इह विहरत्यम्बुजवने
  विकोशे व्यागुञ्जन्मधुप इति तं जल्पति जनः ।
 अहं शङ्के पङ्केरुहकुहरवासे व्यसनिनीं
  श्रियं भृङ्गच्छद्मा मुररिपुरुपेतो रमयितुम् ॥ ७१ ॥
 गन्धाढ्यां नवमालतीं मधुकरस्त्यक्त्वा गतो यूथिकां
  तां त्यक्त्वाशु गतश्च चम्पकतरुं पश्चात्सरोजं गतः ।
 रुद्धस्तत्र निशाकरेण सहसा क्रन्दत्यसौ [१]मूढ हा
  संतोषेण विना विवेकिमन (सा ते) [सःसं] प्राप्नुवन्त्यापदम् ॥ ७२ ॥
 गन्धाढ्यासौ जगति विदिता केतकी स्वर्णवर्णा
  पद्मभ्रान्त्या रसिकमधुपः पुष्पमध्ये पपात |
 अन्धीभूतः कुसुमरजसा कण्टकैश्छिन्नपक्षः
  स्थातुं गन्तुं द्वयमपि सखे नैव शक्तो द्विरेफः ॥ ७३ ॥
 मालतीमुकुले भाति गुञ्जन्मन्तमधुव्रतः ।
 प्रयाणे पञ्चबाणस्य शङ्खमापूरयन्निव ॥ ७४ ॥


  1. 'मूढधीः सन्तोषेण विना पराभवपदं प्राप्नोति मूढो जनः' इति पाठः