अथ मलयाचलस्य ।
वन्दामहे मलयमेव यदाश्रयेण
शाखोटनिम्बकुटजा अपि च[१]न्दनन्ते ।
किं तेन हेमगिरिणा रजताद्रिणा वा
यस्याश्रिताश्च तरवस्तरवस्त एव ॥ २० ॥
त्वं सेवितः किल फलाय तदस्तु दूरे
व्यालान्निवारय निपीडयतो बलान्नः
एतत्तवाप्यभिमतं यदि तन्नमस्ते
यामोऽन्यतो मलय हे नतु चन्दनाः स्मः ॥ २१ ॥
इक्कस्स मलयगिरिणो दिज्जइ रेहागिरीणमझ्झम्मि |
जत्थ विय कडुय निम्बा रुरका सिरिचन्दणं होन्ति ॥ २२ ॥
अथ रोहणाचलस्य ।
रोहणाचल शैलेषु कस्तुलां कलयेत्तव ।
यस्य पाषाणखण्डानि मण्डनानि महीभृताम् ॥ २३ ॥
रत्नानां न किमालयो जलनिधिः किं न स्थिरा मेदिनी
किं न व्योम महत्पदं सुकृतिनां किं नाम नैवोन्नतम् ।
हंहो रोहण किं तु याचकचमूनिःशङ्कटङ्कक्षति-
क्षान्तिस्वीकरणेन गोत्रतिलकस्त्रैलोक्यवन्द्यो भवान् ॥ २४ ॥
अथ रत्नान्योक्तयः ।
अनस्तमितसारस्य तेजसस्तद्विजृम्भितम् ।
येन पाषाणखण्डस्य मूल्यमल्पं वसुंधरा ॥ २५ ॥
यस्य वज्रमणेर्भेदे भिद्यन्ते लोहसूचयः ।
करोति तत्र किं नाम नारीनखविलेखनम् ॥ २६ ॥
सोमकान्तो मणिः स्वच्छः सूर्यकान्तस्तथा न किम् ।
उद्गारे तु विशेषोऽस्ति तयोरमृतवहिजः ॥ २७ ॥
- ↑ चन्दनन्ति चन्दनानि वा समुचितम्.