पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः २]
( १२५ )
टीकाद्वयसहितम्।


गिरिणईजलाई पीअन्ति । अणिअदवेलें सुल्लमंसभूइट्टो आहारो अण्हेअदि । तुरगाणुधावणकण्डिदसंधिणो रतिम्मि वि णिकामं सइदव्वं णत्थि । तदा महन्ते एव्व पच्यूसे दासीएपुत्तेहिं सउणिलुद्धएहिं वणरगहणकोलाहलेण पडिवोधिदो ह्मि। एत्तएण दाणिं [ गिरिनदीजलानि पीयन्ते अनियतवेलं शूल्यमांसभूयिष्ठ आहारो भुज्यते । तुरगानुधावनकण्डितसंधे रात्रावपि निकामं शयितव्यं नास्ति । ततो महस्येव प्रत्यूषे दास्याः पुत्रैः शकुनिलुब्धकैर्वनग्रहणकालाहलेन प्रतिबोधिनोऽस्मि ! इयनेदानी-]


स्वार्थे कश्च वा ’ इति सूत्रेण । गिरिनदीजलानि पीयन्ते । “ पीअन्ति ? इत्यत्र ‘ बहुवाद्यस्यन्ति न्ते इरे ? इति न्यादेशः । अन्यत्समम् । कदुह्णाई ? इति पाठे कदुष्णानि । ईषदुष्णानीत्यर्थः । अनियतवेलं विषमसमग्रम् । सुल्लमंसभूइट्टो शूल्यमांसभूयिष्ठः । लोहशलाकया मांसं संग्रथ्य यत्पच्यते तच्छूल्यमांसम् । “ शूलाकृतं भटेित्र स्याच्छूल्यम् ? इत्यमरः । आहारः । अण्हीअदि भुज्यते ! ‘अण्हीअदि’ इत्यत्र ‘भुजोभुञ्जजिमजमकस्माण्हसभाण--' इत्यहादेशः। शेषं समानम् । तुरगानुधाबनेन कण्डितसंधेः कुट्टिताङ्गसंधेः रात्रावपि निकाममस्यर्थं मे शयितव्यं नास्ति । ततो महत्येव प्रत्यूषेऽतिप्रातर्दास्याः पुत्रैः तस्योद्वेगदायित्वाद्गालिप्रदानम् । शकुनिलुब्धकैः । पक्षिव्याधैः । व्याधो मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः ' इत्यमरः । वनग्रहणेऽरण्यवे-


आहिंङ्यते पर्यट्यते परिश्राम्यत इति यावत् । ग्रीष्म इत्यनेनारण्यवासिनः सर्वे सारंगादयो जन्तवस्तृषिता जलान्वेषिणो भवन्ति । तत्रापि मध्यन्दिन इत्यनेन जलपानार्थं सर्वत्र पर्यटंति तस्मात्तदा मृगया क्रियत इति भावः । स्थासैौष्ठवमुक्त्वा जलासौष्ठवमाह--पत्तेति। पत्रसंगेन कषायाणि कटूनि विरसानीति यावत् अनेन जलस्य माधुर्यगुण निरस्तः । कदुष्णानि ईषटुष्णानि । जलासौष्ठवमुक्त्वा आहारासौष्ठवमाह अणिअदेति । « दिवा यामद्वयादर्वाग्रार्त्रो यामं न लंघयेत् । अतिक्रमे महाव्याश्रिं जनयत्येव भोजनम् ॥” इत्युक्तत्वादव्यवस्थितकालमित्यर्थः। `वेला काले च जलधेर्वेला तरविकारयोः । ” इति विश्वः । आहारमिति प्राकृत्ते लिंगमतंत्रमिति सूत्रात् नपुंपकप्रयोगः । आहारासौष्ठवमुक्त्वा निद्रासौष्ठवमाह-तुर ऐति । रात्रिमपीति । कालाध्वनोरत्यन्तसयोगेद्वितीया । वनप्रहणकोलाहलेनान्योन्यं जालादिकं बद्धुं वनसीमाग्रहणकोलाहलेनेत्यर्थः