पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः २]
( १२९ )
टीकाद्वयसहितम्।


( ततः प्रविशति यथानिर्दिष्टपरिवारो राजा )

 राजा-

कामं प्रिया न सुलभा मनस्तु तद्भदर्शनायासि ।
अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ॥ १ ॥


संचारिकास्तु ता ज्ञेया यवन्यऽपि मताः क्वचित् इति । यथानर्दिष्टपरिकरः । यवनीवृत इत्यर्थः । कामामिति । सा काममत्यर्थं प्रिया । प्रियतमेत्यर्थः । तर्हि सम्यगेव । न सम्यगित्याह--यतो न सुलभाप्राप्या, किंतु सुखेन न लभ्या । तर्हि दुष्प्रापे वस्तुनि प्रयत्नेनापि किमित्याशङ्कायामाह--मन इति । तु इति शङ्कोच्छेदे । मनस्तस्या नायिकाया भावाश्चेष्टास्तासां दर्शन आयासि | सखेदं प्रयत्नपूर्वकं लालसमित्यर्थः । स्यात्त्वदुक्तं यदि पूर्वमभिलाषो न जातः स्यादित्याशयः । अकृतेतेि । मनसिजेऽकृतार्थेऽप्युभयप्रार्थना स्वस्वाभिलाषो रतिं रागं यतः कुरुते प्रीतिमुत्पादयति । अहं तत्र गमिष्यामि, तामेवं वक्ष्य इत्यात्माभिलाषः । एवं मां प्रति तस्या अप्यभिलाषो मनसिजे कृतार्थे संभवाति । जातस्त्योः संभवतीत्यर्थः । अत्रकृतार्थेऽप्यजातरत्योरपीत्यपिशब्दार्थः । तेनैतदुक्तं भवति । यथा मन्मनसस्तभ्दावदर्शनलालसत्वं कार्यं समर्थ्यते तेनार्थान्तरन्यासः । उक्तं च


दिति । उद्भूतं चिरकालबस्थायि च भवति स स्थायी रसो मन्तव्यः । रसस्य स्थायिपरिणामरूपत्वाद्यथा क्षीरपारंग्रामस्य दध्नोऽम्लद्रव्यं सहकारी एवं विभावानुभावाश्च सहकारिण इति यावत् । प्रवृत्तिवृत्तिरेव वेत्यादिना कविनतयोः शिक्षाप्रकारस्तु भरतेन दर्शितः । तत इत्यादि । यथोद्दिष्टपरिवारः विदूषकनिर्दिष्टपरिजनः ।काममित्यादि । प्रिया त्वाभिलाषविषयभूता नायिका कामं प्रायेण सुलभा न सुखेनोमपलब्धुमशक्या । यद्यपि राजर्षकन्यका अथ तु ब्रह्मर्षिणां सुतात्वेन स्वीकारदाश्रमोचितधर्मकरणवेन च दुर्लभत्वम् । एवं दुर्लभत्वज्ञानेऽपि तद्विषणाभलाषवत्त्वे कारणमुक्तं प्रियेति । काममसुलभेत्यनेन पाक्षिकप्राप्तिसंभावना द्योत्यते राजर्षकन्यकाया राजर्षिचरगामिताया युक्तत्वात्तत्रापि सन्निहितस्य परित्यागे कारणाभावाच्च। एवं दुर्लभत्वे किमर्थं तद्विषयाभिलाष इत्यत आह-मनस्त्विति । तद्वदर्शनायासि तस्या भावदर्शनेन स्वविषयाभिलाषज्ञानेन आयासि प्रयासयुक्तम् कदा घटते कथं व घटत इति बहुवितर्कपर्याकुलभियर्थः । स्वविषयाभिलाषज्ञानं स्वयमेव प्रकटयिष्यति “ सर्वं तत्किलमत्परायणमहो " इति मनस्तु


१ आरमगताभित्यधिकम् कं पु° ।