पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
( १३० )
[द्वितीयः
अभिज्ञानशाकुन्तलम् ।


राजानकरुचकेन--' सामान्यविशेषकार्यकारणभावाभ्यां निर्दिष्टं प्रकृतसमर्थनमर्थान्तरन्यासः ’ इति । स च हेिशब्दोपादानानुपादानाभ्यां द्विधेत्युक्तः ! अत्र च हिशब्दानुपादाने बोद्धव्यः । उद्भटादिमते सामान्यविशेषभाव एवार्थान्तरन्यासाद्भकारादत्र काव्यलिङ्गमेव । येषां मते कार्यकारणभावेऽर्थान्तरन्यासस्तेषां मत एतद्व्यतिरिक्ताविषयत्वं काव्यलिङ्गस्येत्यवधेयम् । अथ च मनसिजः कन्दर्पोऽकृतार्थः । रतिः कामभार्या चेति विरोधः 1 व्याख्यातप्रीतिपर्यायत्वेन विरोधाभासः । 'रतिः कामस्त्रियां रागे सुरतेऽपि गतिः स्मृता' इति धरणिः । श्रुत्य नुप्रासश्च । अनेन पूर्वानुरागविप्रलंभाद्यभिलाषो नामावस्योक्ता । तल्लक्षणं तु सुधाकरे--'संगमोपायरचिता प्रारब्धाध्यवसायतः । संकल्पेच्छासमुद्धृतिरभिंलाप इतीरितः ॥ ’ इति ।‘ अथापि तस्य तामेव चिन्तयतः ’ इतेि विदूषकवचसा चिंतोपनिबद्धा । तल्लक्षणं तु-- 'केनोपायेन संसिध्यैत्कदा कुत्र समागमः । का चेयं किंस्वभावा च चिन्तनं तदुदीरितम् ॥ ’ इति । न च पूर्वापरविपर्ययः शङ्कनीयः । वाक्यद्वय-


तद्भावदर्शनायासीत्यनेन यद्यपि स्वयं विचरवत्वेन कार्यस्याघटमानतां निरीक्ष्य तद्व्यापारान्निवर्तते तथापि मनस्तु तद्विषये स्वारसिकवृत्तीत्त्यर्थः । यद्वा तद्भावदर्शनायासि तद्रावदर्शने आयासवत् साकृतावलोकनमंदगमनादीनां स्वाभाविकत्वेनापि संभवात् । तथा च चदिध्यति एवमामभिप्रायसंभवितेष्टजनचित्तवृतिः प्रार्थयिता विडंब्यत इतेि । यस्य यत्राभिलाषातिशयः स तत्कृतचेष्टाः सर्वा अपि स्वकीयत्वेन मनुते स्वाशायास्तादृक् परिकल्पितत्वात् । अत एव तादृक् साधारणचेष्टानां स्वैकताननिश्चायकप्रमाणाविषये आयामीत्यर्थः । प्रयास्करेणी मनोवृतिः प्रेक्षावता प्रभुत्नान्निरोद्धव्येत्यत आह-अकृतार्थोऽपीत्यादि । मनसिजः कामः तस्याऽकृतार्थत्वमालिङ्गनद्यभावः तादृक्परस्परालिङ्गनाद्यभावेऽपि नायिकानायकयोः परस्परप्रार्थनैव रतिं प्रीतिं कुरुते । नायकस्योतमनायिकाविषयानुरागेण स्वसंकल्पमात्रपरिकल्पिनप्रेमचेष्टाभिरपि परानन्दो जायत एव । तदुक्तम् मालतीमाधवे - यास्वन्तःकरणस्य बाह्यकरणव्यापाररोधी क्षणादाशंसापार कल्पितावपि भवत्यानन्दसांद्रो लयः ’ इति । अतः संकल्पमात्रेणापि रतिसिद्धेः प्रेक्षावता मनोवृत्तिर्न निरोद्धव्येत्यर्थः । यद्वा भावज्ञानार्थं मन आयासीत्युक्तं किं तेन भावज्ञानेनेत्यत आह-अकृतार्थोऽपीत्यादि । उभयप्रार्थनाज्ञातपरस्पराभिलाषः । यद्वा उयप्रार्थनाशब्देन संभोगविषयेच्छाविशेषः स्पृहपरपर्यायः । प्रमोदात्मा मनोवृत्तिविशेषो रतिरुच्यते सैव श्रृंगाररसस्थायी भवति । तदुकम् भावप्रकाशे- संपनैश्वर्यमुखयोरशेषगुणयुक्तयोः । नवयौवनयोः श्लाघ्थप्रकृत्यौः श्रेष्ठरूपयोः ॥ नारीपुरुषयोस्तुल्या परस्परविभाविका । स्पृहद्या चित्तवृत्ती रतिरित्यभिधीयते ॥ इति तादृग्योभयप्रार्थना