पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः २]
( १४१ )
टीकाद्वयसहितम्।


मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः
सत्त्वानामपि लक्ष्यते विकृतिमच्चितं भयक्रोधयोः ।
उत्कर्य: स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले
मिथ्यैव व्यसनं वदन्ति मृगयामीदृग्विनोदः कुतः ॥ ९ ॥


वार्थमप्रस्तुतप्रशंसया समर्थयते-मेद इति । मेदसो वसायाश्छेदेनाल्पीभावेन कृशमुदरं यस्य तत् । अतो लघु । तत एवोत्थानयोग्यमुद्योगयोग्यम् । ' उद्योगे च तथोत्थानम् ’ इति धरणिः । सत्त्वानां जन्तूनाम् । ‘ सत्त्वमस्त्री तु जन्तुषु ’ इत्यमरः । भयक्रोधयोर्निमित्तयोर्विकृतिमद्विकारयुक्तं चित्तं लक्ष्यते । अपिः पूर्ववाक्यसमुच्चये । भये जन्तरीदृशं चित्तम्, क्रोधे चेदृगिति ज्ञायत इत्यर्थः । स च धन्विनां धानुष्काणामुत्कर्षः । यच्चले चञ्चले लक्ष्य इषवो बाणाः सिध्यन्ति चञ्चललक्ष्यवेधका भवन्ति चेति । चः समुच्चये । तेन क्रियासमुच्चयालंकारः । ईदृग्विनोदः कौतुकं कुतः कुत्र । न कुत्रापीत्यर्थः । अथ चेदृग्विनोदः कुतः । क इत्यर्थः । सार्वविभक्तिकस्तसिल् । मृगयाया व्यसनत्वाभावे पूर्ववाक्यत्रयं हेतुत्वेनोपात्तमिति काव्यलिङ्गम् । वृत्त्यनुप्रासश्च । शार्दूलविक्रीडितं वृत्तम् । ' जयति स्वामी ' इत्यादिनैतदन्तेन दाक्षिण्यं नाम भूषणमुपाक्षिप्तम् । तल्लक्षणम्-- ' चित्तानुवर्तनं


बेधेचबालिशा ’ इत्यमरः । नन्विति संबोधने निदर्शनं । दृष्टन्तः । मेद इत्यादि । मेदसः स्थौल्यजनकधातुविशेषस्य । छेदेन नाशेन कृशम् उदरं यस्य तथोक्तम् । उत्थानयोग्यं उत्साहयोग्यमिति वा पाठः । अश्चाद्यारोहणव्यवहारार्हमिति यावत् । सत्वानां जंतूनाम् । “ सत्वोऽस्त्री जंतुषु क्लीये व्यवसाये पराक्रमे ” इति वैजयंती । भयक्रोधयोः सतोर्विकृतिमद्विकारवत् भीतं क्रुद्धमिति ज्ञायत इत्यर्थः । चले चंचले लक्ष्ये शरव्ये इषवः बाणाः । बहुवचनेन यादृच्छिकैकलक्ष्यवेधो निरस्यते किं तु सर्वे इषवश्चंचलशरव्यवेधका इति यावत् । सिध्यन्ति फलन्ति उत्कर्षोऽतिशयः मिथ्या मृषैव व्यसनं विपत्करं वदन्ति गुणानभिजलोका इति शेषः । ईदृग्विनोदः एवं विधः क्रीडा कुतः कस्मात् नान्यस्माद्भवतीत्यर्थः । यस्तु स्थूलदेही न भवति स्वयं पर्यटनं कर्तुं समर्थः यदीयबाणाश्चंचललक्ष्यं बेधयंति तथैव मृगया विनोदाय भवति यस्तु एतादृशं न भवति तस्यैव विपत्कारीति भावः । " व्यसनं विपदि भ्रंशे दोपे कामजकोपजे " इत्यमरः । अत्र श्लोके गुणातिपातो नामालंकारः तदुक्तम्-“ गुणा भिधानैर्वैिविधैर्विपरीतार्थयोजितैः । गुणातिपातो मधुरो निष्टुरार्थो भवेदथ ॥" इति अत्र १