पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
( १४४ )
[ द्वितीयः
अभिज्ञानशाकुन्तलम् ।

कोऽपि प्रकर्षी व्यज्यते । अत एवास्मदिति बहुवचनमपि सजीवम् । अन्ये तु राज्ञो नायिकावियोगन दुःखितस्यान्येषां तद्वियोगद्दुःखं मा भवत्वित्यभिप्रायेणोक्तिरिति वदन्ति तेषां महिप्यश्च महिपाश्चेत्येकशेषेण मृग्यश्च मृगाश्चेत्येकशेपेण अथवा 'कुलं जनपदे गृहे' इति कोशान्मृगमियुनाक्षेपकेण कुलशब्देन मुस्ताविश्रान्तिज्यानां नायिकात्वारोपवशेन क्षतौ नखदन्तक्षतागेपेण 'आनधो दृढबन्धे स्यात्प्रेमालंकारयोरापि' इति कोशादाबन्धशब्दस्य स्नेहार्थत्वेनेति व्याख्येयम् । श्रुतिवृत्त्यनुप्रासौ । स्वभावोक्तिः । पादत्रये क्रियासमुच्चयः । सर्वस्मिन्स्वस्याक्रियत्वादन्येषां नानाक्रियाजननाद्विरोधः । वस्तुस्वाभाव्यादाभासत्वं काव्यलिङ्गं व्यङ्ग्यम् । कार्यकारणयोः समकालत्वेनोक्तेरतिशयोक्तिश्च । वृत्तमनन्तरोक्तम् । अत्र केचन कारकप्रक्रमभङ्गमिया 'कुर्वन्त्वस्तभियो वराहपतयो मुस्ताक्षतिम्' इति पाठमपठम् । नतु कारकप्रक्रमभङ्गे परिहृते सति प्रक्रमभङ्गो नैव परिहृत इति चेन्मैवं वाचः । अनेन पाठेन सोऽपि परिहृत एव । यतः पूर्वमात्मनेपदं पश्चात्परमै पदं पुनः परस्मैपदमात्मनेपदमित्यारोहावरोहरूपः क्रमोऽस्तु । किंच भहेिपादिविषयतया आशंसालक्षणोऽर्थोऽभिप्रेतः कवेः । स च निर्व्यूढ एव कविनेति नायं प्रक्रमभङ्गदोपस्य विषयः । यथा-- 'पृथ्वि स्थिरा भव भुजंगम् धार्यैनां त्वं कूर्मराज तदिदं द्वितयं दधीथाः । दिक्कुंजराः कुरुत तत्रितये दिधीर्षां देवः करोति हरकार्मुकमाततज्यम् ॥' इत्यत्र । एवं वचनप्रक्रमभङ्गोऽपि परिहृतो भवति । पूर्वं बहुवचनं पुनरेकवचनं पुनर्बहुवचनं पुनरेकवचनमित्येव क्रमः । विशेषणप्रक्रमभङ्गोऽपि 'घ्रन्तां विपाणेर्मुहुः' इति परिहृतो भवति । एवं पुंनपुंसककर्तृनिर्देशाल्लिङ्गप्रक्रमभङ्गेऽपि परिहृतः । न चात्र द्वितीय चरण इव कर्तृविशेषणकर्तृकर्मक्रियाक्रमेण निबन्धाभाषात्क्रमप्रक्रमभङ्ग इति वाच्यम् । कर्त्रादिव्यस्तवस्य विधिवाक्य एव दृष्टत्वान्नानुवादवाक्ये । प्रकृतस्य चानुवादवाक्यत्वात् । विशेषणव्यस्तत्वस्यापि न दूषकत्वम् । तद्धि द्विर्विधम् । अन्तरङ्गं बहिरङ्गं च । तत्रोपसर्गनेिपातरूपमन्तरङ्गम् । तेषां धातुनाम्नोः पूर्वं पश्चाञ्च क्रमेण प्रयोगस्य नियतत्वात् । तत्र निपातरूपाणेि विशेषणानि येष्वनन्तरं प्रयुज्यन्ते


तथा न दोषः । उक्तं च-"पदविह्वलता क्वापि स्पृहृणीया भवतेि रक्षकवींद्राणाम् ।