पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
( १४८ )
[ द्वितीयः
अभिज्ञानशाकुन्तलम् ।

 विदूषकः-णं भवं अग्गदो मे वदृदि । [ननु भवानग्रतो मे वर्तते]
 राजा--सर्वः कान्तमात्मा[१]नं पश्यति । [२]तामाश्रमललामभूतां शकुन्तलामधिकृत्य ब्रवीमि।


वाप्तचक्षुःफलोऽसि' इत्यारभ्य तृतीयाङ्कसमाप्तिपर्यन्तं प्रतिमुखसंधिः । तल्लक्षणं तु सुधाकरे -- 'बीजप्रकाशनं यत्र दृश्यदृश्यतया भवेत् ॥ तत्स्यात्प्रतिमुखम्' इति । तत्र 'अज्जवि से तं एक चिन्तअन्तस्मअक्खीसु पभादं आसी' । 'विश्रान्तेन भवता ममाप्यनयासे कर्मणि सुहृद्येन भवितव्यम्' इत्यनेन च विदूषकेण दृश्यस्य तत्सखीभ्यामदृश्यस्य च । दशरूपके -- 'विन्दुप्रयत्नानुगमादङ्गान्यस्य त्रयोदश । विलासः परिसर्पश्च विधूतं शर्मनर्मणी ॥ नर्मद्युतिः प्रगयणं निरोधः पर्युपासनम् । वज्रं पुष्पमुपन्यासो वर्णसंहार इत्यपि ॥ 'इति । अङ्गलक्षण तत्र तत्र व्याख्यानावसरे वक्ष्यामः । बिन्दुप्रयत्नयोलिक्षणे यथा दिभरते - 'प्रयोजनानां विच्छेदे यदविच्छेदकरणम् । यावत्समानं बन्धस्य स बिन्दुरीत संज्ञितः ॥ 'इति । यथात्र मृगयावृत्तान्तेन विच्छेदे सति 'राजा--माढव्य, अनवाप्तचक्षुःफलोऽसि' । 'तामश्रमललमभूतां शकुन्तलामधिकृय ब्रवीमि' इत्यादिना । 'अपश्यतः फलप्राप्तिं यो व्यापारः फलं प्रति । परं चौत्सुक्यगमनं प्रयत्नः स प्रकीर्तितः ॥' इति । यथात्र 'राजा--तपस्विभिः कैश्चित्परिज्ञातोऽस्मि । चिन्तय । तावत्केनापदेशेन सकृदप्याश्रमे वसामः ’ इति । दर्शनीयं मनोरमम् । ननु भवानग्रतो मे वतते । भवन्तं मुक्त्वान्यः कः सुन्दर इत्यर्थः । किं त्वाश्रमल्लामभूतामधिकृत्येति योजनीयम् । ललामं प्रधानम् । 'ललामपुच्छपुंड्रश्वभूपाप्राधान्यकेतुपु' इत्यमरः । तत्र क्षीरस्वामी प्रधानेऽपि प्राधान्यव्याख्यातस्त्वात् । अनेन सौन्दर्यातिशयो ध्वन्यते ।


वस्तु येन स तथोक्तः । नयनसद्भावस्य तादृग्विषयविलोकनेनैव साफल्यमिति भावः। णम् इत्यादि । दर्शनीयभवांस्त्वं पुरो वर्तते खलु । तस्मादवाप्तचक्षुःफ़लो भवामति यावत् ॥ सर्वः सकलो जनः आत्मीयं स्वकीयं कान्तं मनोहरं स्वकीयमरम्यमपि स्नेहवशाद्रम्यमेव दृश्यत इति भावः । आश्रमललामभूतामाश्रमालंकारभूतां


  1. आत्मीयं इ० पा० ।
  2. अहं तु तामेव इ० पा० ।