पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः २]
(१४९)
टीकाद्वयसहितम् ।

 विदूषकः-(स्वगतम्) होदु । से अवसरं ण दाइस्सं । (प्रकाशम्) भो वअस्स, ते तावसकण्णआ अब्भत्थणआ दीसादि । [भवतु । अस्यावसरं न दास्ये । भो वयस्य, ते[१] तापसकन्यकाभ्यर्थनीय। दृश्यते]

 राज्ञ--सखे, न पारिहार्ये वस्तुनि पौरवाणां मनः प्रवर्तते ।

[२]सुरयुवतिसंभवं किल सुनेरपत्यं तदुज्झिताधिगतम् ।
अर्कस्योपरि शि[३]थिलं च्युतमिव नवमालिकाकुसुमम् ॥ ८ ॥


भवतु । अस्यावसरं वर्णनावसरं न दास्ये । हे वयस्य, ते तापसकन्यकाभ्यर्थनीया दृश्यते । सुरेति । किलेति प्रसिद्धौ । सुरयुवतिर्मेनका तत्संभवम् । सुन्यपत्यता तर्हि कथमित्याह--मुनेरिति । तयोज्झितं त्यक्तं सत्ततोऽधिगतं प्राप्तं मुनैरपत्यम् । तत्रोपमामाह--नवमालिकाकुसुममिवेति । अनयातिशयपेलवत्वं ध्वन्यते । कीदृक् । अर्कस्योपरि च्युतम्। अर्कस्येत्यनेन मुन्युपमानेन तदीयत्वस्यात्यन्तासंभावनीयत्वं व्यज्यते । उपरीत्यनेन शङ्काबीजम् । अधःपतितस्य शङ्कापि नायाति । स्थापनं हि संनिवेशविशेषेण भवतीति च्युतमित्युक्तम् । कदाचित्काकतालीयन्यायेन च्युतस्यापि संनिवेशविशेषः स्यादित्यत आह-शिथिलम् । एतेन तवापि चक्षुर्मात्रगोचरत्व एव तदीयवभ्रमोऽपि न भविष्यतीत्युक्तम् । श्रुतिवृत्त्यनुप्रासौ । 'च्युतमभिनवमालिकाप्रसूनामिव' इति पठित्वा प्रयोगप्रक्रमभङ्गः परिहरणीयः । मुनिसङ्गावदनुत्कृष्टत्वं मन्यमानस्य विह-


तामेव पूर्वप्रसंचितमैचाधिकृत्य विषयीकृत्य । सख इत्यादि ॥ परिहार्ये हेयवस्तुविषये परियाणां पुरुवंशोद्भवनां ममैकस्यैत्र न भवतीति भावः । तापसकन्यकेत्यनेन रूपाद्यभावेऽपि परिणयायोग्यत्वं च विदूषकैनोक्तभिति तदुपपत्तिमाह-सुरयुवतीत्यादि ॥ सुरयुवतिसंभवं मैनकासंभूतम् अनेन रूपाद्यतिशय उक्तः । मुनेर्विश्वामित्रस्यापयं जन्यजनकभावसंबंधे षष्टी । अनेन राजर्षिविश्वामित्रपुत्रीत्वकथनेन शकुन्तलायाः सवर्णक्षेत्रतया परिणययोग्यत्वमुक्तम् । तर्हि कण्वपुत्रीति व्यपदेशः कथमित्यत

आह-तदुज्झिताधिगतमिति । तया मेनकया उज्झितं परित्यक्तम् अधिगतं प्राप्तं कण्वेनेति शेषः । अनेन काश्यपाधीनत्वकथनेन बलादाहरणमपि कर्तुं न शक्यमिति प्राप्यते किलेति संभावनायाम् । शकुन्तलाया लोकोत्तररूपविशेषचेष्टादिभिरपि सुरयुवतिसंभव-


  1. अज (अद्य) इ० पा० ।
  2. विदूषकः-ता कहं एदं (तस्मात्कथमेतत्) इयधिकं क० पु० ।
  3. पतितं इ० पा० ।