पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः २]
( १६५ )
टीकाद्वयसहितम्।


 प्रथमः- अथ किम् ।
 द्वितीयः-तेन हि

नैतच्चित्रं यदयमुदधिश्यामसीमां धरित्री
मेकः कृत्स्नां नगरपरिघप्रांशुबाहुर्हभुनक्ति।
आशंसन्ते सुरयुवतयो वेद्धवैरा हि दैत्यै
रस्याधिज्ये धनुषि विजयं पौरुहूते च वज्रे ॥१५॥


नैतदिति । उदधिश्यामसेएमाभित्युक्त एकदेशेऽपि तत्संभवात्क्ऱुत्स्नामित्युक्तन् । नागपदेनूयन्तदैघ्र्ये ध्वनितम् । पारिघोऽर्गलः परिचो योगभेदेऽत्रे मुद्गरेऽर्गलवातयोः । इति विश्वः । तद्वत्प्रांशू दीर्घा बाहू यस्य सः । अनेन भुजसहायेन सर्वे शत्रवो हता इति कारणे वक्तव्ये समस्तबर्जियलक्षणं कार्यमेवोक्तमिति पर्यायोक्तालंकारः । सुरयुवतय इति युवतिग्रहणं तासामतिभीरुत्वाद्वन्दीदुःखाद्यनुभवात्स्त्रीत्वेन युद्धाभिमानाद्यभावाच्च । प्रथमस्य धनुषो ग्रहणादस्यैव प्राधान्यं द्योत्यते । पौरुहूते च वज्र इति पश्चदुपदेशाद्रौणत्वं ध्वन्यते । आशंसन्त इति “ शसि इच्छायाम् इत्यस्येदितो रूपम् । “ शंस स्तुतिहिंसनयोः ? इत्यस्य तु शंसतीति । तथासावेव रघौ-' इत्याशशंसे करणैरवाह्यैः ' इति । वृत्यनुप्रासः समुच्चयालंकारः| वध्रधनुषोर्द्रव्ययोः समुच्चितत्वात् । नैतच्चित्रमित्यर्थं प्रत्युत्तरार्थवाक्यार्थस्य हिशब्देन हेतुत्वोपादानात्काव्यलिङ्गमुपमा च उभयो


सखः अनेन देवेन्द्रस्यापि दुष्करकार्यकरणेन दुष्यन्तस्य भित्रत्वमिति ज्ञातव्यम् । तेन दुष्यन्तपरिपालितभूलोकस्यापि स्वर्गातिशायि वैभवं सूच्यते । देवेन्द्रस्यापि महाकार्यकरण साह्वय्ये दुष्यन्तापेक्षा अस्माकं पुनः का कथेति भावः । अथ किमित्यंगीकारे तेन हि । उक्तगुणवत्वेन हेतुना। नैतदिति । अयं दुष्यन्तः एकः अप्रतिभटः उदधिश्यामसीमां धरित्रीं भुनक्ति पालयतीति यत् तदेतचित्रमाश्चर्यं न भवति इतरविलक्षणशैर्यवतः दुष्यन्तस्य लोकमात्राधिपत्यमाश्चर्यं न भवतीति यावत् । नगरपरिघप्रांशुबाहुरित्यनेन ‘ वयमेव स्यैतन्महिमानं व्याचष्टे ” इति न्यायेनाकृतिविशेष एव माहात्म्यं व्यनक्तीति ध्वन्यते । कृत्स्नां धरित्रीमित्यनेनाप्रतिभटतया कृतकृत्यता सूच्यते । तेन चेतरत्र कार्यान्तरगमने निःशंकत्वं व्यज्यते । शूरस्यैव सार्वभौमत्वं भवति तथापि केचन शूराः स्वकीयराज्य मात्रं रक्षन्ति दुष्यन्तस्य लोकान्तररक्षायामपि शक्तिरस्तीति भावः । तदेवाह-आशंसंत


१ सक्त इ० पा० ।