पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१९४

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ३]
( १८९ )
टीकाद्वयसहितम्।


( सखेदं परिक्रम्य )

 क्व नु खलु संस्थिते कर्मणि सदस्यैरनुज्ञातः श्रमक्लान्तमात्मानं विनोदयामि । (निःश्वस्य) किं नु खलु मे प्रियादर्शनादृते शूरणमन्यत् । यावदेनामान्विष्यामि । (सूर्यमवलोक्य) इमामुग्रातपवेलां प्रायेण लतावलयवत्सु मालिनीतीरेषु ससखीजना शकुन्तला गमयति । तत्रैव तावद्गच्छामि ।


स्वीकृतो भवति । श्लोके च यथासंख्यालंकारः । संस्थितेऽघासिते । सदसि साधवः सदस्यास्तैरुपद्रष्टृभिः । ‘सदस्या विधिदर्शनः' इत्यमरः । क्व नु खलु विनोदयामीत्यन्वयः । विनोदेन कौतुकेन क्लेशमपहरामीति भावः । अन्यत्र क्वचिदपि विनोदनाभावान्निःश्वस्येत्युक्तिः । तत्र दीर्घत्वमुष्णत्वं विरहितत्वादवसेयम् । अन्यथैतदुक्तेरेव वैयर्थ्यात्तस्य स्वभावत । अन्यत्किं खलु शरणं रक्षकम् | न किंचिदित्यर्थः |'ततः प्रविशति' इत्यादिनैतदन्तेनोद्वेगो नाम पञ्चम्यवस्था सूचिता । तल्लक्षणं तु - ‘मनसः कम्प उद्वेगः कथितस्तत्र विक्रियाः । चित्तसंतापनिःश्वासौ द्वेषः शय्यासनादिषु ॥ स्तम्भचिन्ताश्रुवैवर्ण्यदीनत्वादय ईरिताः ||' इति । मालिनीति नदीसमाख्या ।‘यावदेनाम्’ इत्यादिना 'गच्छामि'


गुण उक्तः । क्व नु खल्वित्यादि । खलु जिज्ञासायाम् । सवनकर्मणि यज्ञकर्मणि संस्थिते परिसमाप्ते सदस्यैः ऋत्विग्भिः । क्लांतं विरहपरंपराजनितदुःखपीडितम् आत्मानं चित्तम् । निश्वस्येत्यादि । खलु यतो हेतोः । मे एतादृशावस्थापन्नस्य मम प्रियदर्शनादृते अविच्छिनाकांक्षालंबनीभूतनायिकादर्शनमन्तरेण शरणं रक्षितृ किमित्याक्षेपे अन्यत्किमपि नास्त्येवेत्यर्थः । यावदन्विच्छामि अन्वेषयामि । अनेन विलासो नाम प्रतिमुखसन्ध्यंगमुक्तम् । तदुक्तम् -“दर्शनालिंगनादीच्छा विलासः परिगीयते” इति । अत्र दुष्यन्तस्य शकुन्तलादर्शनादीच्छया विलासः । इमामित्यादि । मालिनीतीरेष्विति बहुवचनेन शकुन्तलाया अपि स्वविरहजनितदुःखानुभवोऽस्तीति राज्ञा सूच्यते । विरह्पीडितजनस्यैकत्रावस्थितेरसंभवात् । तथा मेघसंदेशेऽपि प्रयुक्तं "रामगिर्याश्रमेषु" इति । अनेनोभयानुरागः सूचितः न चेद्रसाभासप्रसंगः स्यात् । तदुकम् काव्यप्रकाशे । "एकत्रैवानुरागश्चेत्तिर्यड्म्लेच्छगतोऽपि वा । योषितो बहुसक्तिश्चेद्रसाभासः प्रकीर्तितः ||’ इति । तथा भावप्रकाशिकायामप्युक्तम् "श्रृंगारो हास्यभूयिष्ठः श्रृंगाराभास ईरितः” इति । श्रृंगारस्यारागस्त्वनैकरागस्तिर्यग्गतो म्लेच्छगतश्चेति चतुश्च हास्यभूयत्वम् । तत्रारागस्वेकत्र रागाभावः । नन्वेकत्र रागाभावाद्रसस्याभासत्वं न युज्यते


१ आखिच्छामि इ० पा० ।।