पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२१२

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ३]
( १९९ )
टीकाद्वयसहितम्।


अनसूया--रोअइ मे सुउमारो पओओ । किं वा सउन्दला भणादि । [ रोचते मे सुकुमारः प्रयोगः । किंवा शकुन्तला भणति । ]
शकुन्तला–को णिओओ विकप्पीआदि । [ को नियोगो विकल्प्यते । ]
प्रियंवदा–तेण हि अत्तणो उवण्णासपुव्वं चिन्तेहि दॉवललिअपदबन्धणं। [ तेन ह्यात्मन उपन्यासपूर्वं चिन्तय तावल्ललितपदबन्धनम् । ]
शकुन्तला-हला, चिन्तेमि अहं । अवहीरणभीरुअं पुणोवेवइ मे हिअअं। [ हला, चिन्तयाम्यहम् । अवधीरणभीरु पुनर्वेपते मे हृदयम् ।

रोचते मे सुकुमारः प्रयोगः । किं वा शकुन्तला भणति । को नियोग आज्ञा विकल्प्यते विचार्यते । दातुमिति शेषः । तेन ह्यात्मन उपन्यासपूर्वं चिन्तय तावल्ललितपदबन्धनम् । ललितं च तत्पदवन्धनं चेतीदमेव विशेष्यम् । केषुचित्पुस्तकेषु “ललियपदवन्धणं छलियम्" इति पाठः । छलितकमित्यर्थः । तदुक्तं सरस्वतीकण्ठाभरणे- 'यदाङ्गिकैकनिर्वर्त्यमुज्झितं वाचिकादिभिः | नर्तकैरभिनीयेत प्रक्ष्वेडो वल्लिकादि तत् || तल्लास्यं ताण्डवं चैव छलितम्’ इत्यादिना । 'लास्यच्छलितसंपादि प्रेक्ष्यार्थम् ’ इति काव्यादर्शेऽपि । छलितक्षणं यथा - 'रतिक्रोधोत्साहभावप्रधानं छलितं मतम्' इति । चिन्तयाम्यहम् | अवधीरणा तिरस्कारस्तेन भीरु पुनर्मे वेपते हृदयम् । मे हृदयं पुनर्वेपत इते संवन्धः । क्रियायां


नैतदन्तेन प्रज्ञानाम सन्ध्यंगमुक्तम् । यदाह- "प्रज्ञासु निश्चिता बुद्धिः" इति । अत्र दुष्यन्तप्राप्ति प्रत्यसह्यकालविलंवनायाः शकुन्तलाया नायकप्राप्यर्थं मदनलेखः क्रियतामिति सुनिश्चितत्वात्प्रज्ञा भवति । किमित्यादि । अवधीरणाभीरुकमित्यनेन सार्वभौमस्य मम बहुवल्लभतया अरण्यवासिन्यां युवत्यां कथमनुरागो भूयादिति राजा वदिष्यतीति न्यक्कारजनितभयग्रस्तमित्यर्थः । तेन आत्मनः कन्याभावसुलभमप्रागल्भ्यं ज्ञाप्यते ।


१ अम्र अअं (अयं ) इत्यधिकं क्व० पु० । २ फणति इति क्व० पु० पा० । ३ वा ( वां ) इत्यधिकं क्व० पु० । ४ किंवि ( किमपि ) इति क्व० पु० पा० । ५ अवहीरणाभीरुअं ( अवधीरणाभीरुकं ) इति क्व० पु० पा० ।।