पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ६]
( २२९ )
टीकाद्वयसहितम्।


अनसूया ‌--- पिअंवदे, जइ वि गन्धव्वेण विहिणा णिच्युतकल्लाणा सउन्दला अणुरूवभत्तुगासिणी संवुत्तेति णिव्वुदं मे हिअअं, तह वि एत्तिअं चिन्तणिज्जं । [प्रियंवदे, यद्यपि गान्धर्वेण विधिना निर्वृत्तकल्याणा शकुन्तलानुरूपभर्तृगामिनी संवृत्तेति निर्वृतं मे हृदयम्, तथाप्येतावच्चिन्तनीयम् ]

 प्रियंवदा–कहं विअ । [ कथमिव |


विति वामहस्तेनोत्तानेनारालेन दृक्षिणेन पुरःपार्श्वादिस्थितेनौचित्यच्यु तसंयुक्तेन हंसास्येन । तल्लक्षणं यथा -‘ तर्जन्यादिष्वंगुलीषु प्राच्याः प्राच्याः परापराः । दूरस्थोर्ध्वा मनाग्वक्त्रा धनुर्वक्त्रा तु तर्जनी ॥ अंगुष्ठः कुञ्चितो यत्र तमरालं प्रचक्षते । ' इति। “ लग्नास्त्रेताग्निसंस्थानास्तर्जन्यंगु- ष्ठमध्यमाः । शेषे यत्रोऽर्धविरले स हंसास्योऽभिधीयते ॥ औचित्याच्यु तसंयुक्तं कुसुमावचयादिषु ’ इति । ‘हस्तादाने चेरस्तेये ’ इतेि घञि कृते अवचाय इति भाव्यम् । तथा च वामनसूत्रम् -‘‘ अवतारावचायशब्दयोर्दीर्घव्यत्यासो बालानाम् ' इति । अत्रोच्यते—‘ हस्तादानग्रहणे प्रत्त्यासत्तिरादेयस्य लक्ष्यते ’ इति वृत्तिकारेण व्याख्यातम् । हस्तान इतेि किम् ।'वृक्षशिखरे पुष्पप्रचयं करोति' इति प्रत्युदाहृतम् । इदं च पदमञ्जरीकारेण व्याख्यातम् । आरुह्य हस्तादानेऽप्यादेयस्य प्रत्यासत्त्यभावाद्धञभावः । एवमत्रापि तासां बालत्वात् ।आदेयस्य प्रत्यासत्त्यभावाद्धञभाव इति ज्ञेयम् । प्रियंवदे, यद्यपि गान्धर्वेण विधिना निर्वृत्तकल्याणा जातमङ्गला । 'कल्याणं मङ्गलेऽपि च ' इति विश्वः । शकुन्तलानुरूपभर्तृगामिनी संवृत्तेति मे निर्वृतं सुखितं हृदयम्, तथाप्येता


मुखाक्षेपसंयुतम् । ययोचितं तु विष्कंभं सर्वांकेषु प्रकल्पयेत् ॥" इति । हलेल्यादि । सखि प्रियंवदे यद्यपि गन्धर्वेण विवाहविधिना निवृत्तकल्याणा शकुन्तला अनुरूप भर्तृगामिनी संवृत्तेति निर्वृतं मे हृदयम् । अनेन पुनः पूर्वोंकार्थ उक्त इत्यवगंतव्यम् । तह वीत्यादि । अनेनोत्तरांकार्थसूचनं कृतमिति ज्ञातंव्यम् । अनसूयाप्रियंवदयोर्नायिका प्रियसखत्वाम्मध्यसपत्रवं देयत्वाभावत् । अत्र पूवतर्कवृत्तर्तिष्यमाणवस्तु


१ हला ( सखि ) इत्यधिकं ई०पू० २ जइ वि ( यद्यपि ) इति कo पु‘ नास्ति । ३ विवाह इत्यधिकं क० पू० र ४ एदं ( एतत् ) इति ई० पू० पाठः ।