पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
(२३६)
[चतुर्थः
अभिज्ञानशाकुन्तलम् ।

 प्रियंवदा—त[१]दो मे वअणं अण्णहाभविदुं णारिहदि । किंदु अहिण्णाणाभरणदंसणेण साबो णिवत्तिस्सदित्ति मन्तअन्तो [२]सअं अन्तरिहिदो । [ततो मे वचनमन्यथाभवितुं नार्हति । किंत्वभिज्ञानाभरणदर्शनेन शापो निवर्तिष्यत इति मन्त्रयन्स्वयमन्तर्हितः ।
 अनसूय-सक्कं दाणिं अस्ससिदुं । अत्थि तेण राएसेिणा संपत्थिदेण सणामहेअङ्किअं अङ्गुलीअअं सुमरणीअंत्ति सअं पिणद्धं । [३]तस्सिं साहीणोबाआ सउन्दला भविस्सदि। [शक्यमिदानीमाश्वासयितुम् । अस्ति तेन राजर्षिणा संप्रस्थितेन स्वनामधेयाङ्कितमङ्गुलीयकं स्मरणीयमिति स्वयं पिनद्धम् । तस्मिन्स्वाधीनोपाया शकुन्तला भविष्यति]
 प्रियंवदा-सहि, एहि । देवकज्जं दाव[४] णिव्वत्तेह्म । [सखि, एहि । देवकार्यं तावन्निर्वर्तयावः]

(इति परिक्रामतः)

 प्रियंवदा-(विलोक्य ।) अणसूए, पेक्ख दाव[५] । वामहत्थोवहिदव[६]अणा आलिहिदा विअ पिअ[७]सही । भत्तुदाए चिन्ताए अत्ताणं पि ण एसा विभावेदि । किं उण आअन्तुअं । [अनसूये, पश्य तावत् । वामहस्तोपहितवदनालिखितेव प्रियसखी । भर्तृगतया चिन्तयात्मानमपि नैषा विभावयति । किं पुनरागन्तुकम्]


सोढव्यः ततो मे वचनमन्यथाभवितुं नार्हति । किंत्वभिज्ञानाभरणदर्शनेन शापो निवर्तिष्यत इति मन्त्रयन्कथयन्स्वयमन्तर्हितः । शक्यमिदानीमाश्वासयितुम् । अस्ति तेन राजर्षिणा संप्रस्थितेन स्वनामधेयाङ्कितमंगुली यकं स्मरणीयमिति स्वयं [पिनद्धं] परिधापितम् । अस्तीत्यन्वयः । तस्मिन्स्वाधीनोपाया शकुन्तला भाविष्यति । देवकार्यं तावान्निर्वर्तयावः । विलोक्येति । शकुन्तलामिति शेषः । अनसूये, पश्य तावत् । वामहस्तो-


  1. सो (सः) इत्यधिकं क्व० पु० ।
  2. एव्व (एव) इति क्व० पु० पा० ।
  3. तेण (तेन) इति क्व० पु० पा० ।
  4. से (अस्याः) इत्यधिकं क्व० पु० ।
  5. णं (एनाम्) इत्यधिकं क्व० पु० ।
  6. वअणंअलिहिदं (वदनमालिखिताम्) इति क्व० पु० पा० ।
  7. सहॅि (सस्त्रीम्) इतेि क्व० पु० पा० ।