पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
( २४४ )
[ चतुर्थः
अभिज्ञानशाकुन्तलम् ।


पारोमि पवासपडिणिउत्तस्य ताटकस्सवस्त दुस्सन्तपरेिणीदं आदण्णसत्तं सउन्दलं णिवेदिदुं । ञह्नोहिं अंगेहिं किं कराणिजं । [ प्रतिबुद्धाषि किं करिष्य । न न उचितेष्वपि निजकार्येषु हस्तपादं प्रसरति । काम इदानीं सकामो भवतु । येनासत्यसंधे जने शून्यहृदया सखी पदं कारिता । अथवा दुर्वाससः कोप एष बिकारयति । अन्यथा कथं स राजर्षिस्तादृशानि मन्त्रयित्वैतावत्कालस्य लेखमात्रमपि न विसृजति । तदितोऽभिज्ञानमङ्गुलीयकं तस्य विंसृजावः । दुःखशीले तपस्विजने कोऽभ्यर्थ्यताम्। ननु सखीगामी दोष इति व्यवसितापि न पारयामि प्रवासप्रतिनिवृत्तस्य तातकाश्यपस्य दुष्यन्तपरिणीतामापन्नसत्वां शकुन्तलां निवेदयितुम् १ इत्थंगतेऽस्माभिः किं , करणीयम् ]

( प्रविश्य )

 प्रियंवदा-( सहर्षम् ) सहि, तुवर सउन्दलाए पत्थाणकोदुअं णिव्वत्तिदुं [ सखि, त्वरस्व शकुन्तलायाः प्रस्थाकौतुकं निर्वर्तयितुम् ]


तत्र गन्तुमिति शेषः । ननु सखीगाम दोष इते व्यवसितापि जातव्यवसायापि न पारयामि पुवासप्रतिनिवृत्तस्य तातकाश्यपस्य दुष्यन्तपरिणीतामापन्नसत्त्वां गुर्वीणीम् । ' अपन्नसत्वा स्यादुर्विण्यन्तर्वत्नी च गर्भिणी ' इत्यमरः । शकुन्तलां निवेदयितुं संपादयितुम् । सखीगामी दोष इति निवेदयितुं न पारयामीति संबन्धः । अनेन देववाण्यास्या अन्तर्वत्नीत्वं श्रावयिष्यत इति सूचितम् । इत्थंगतेऽस्माभिः किं करणीयम् । सखि, त्वरस्व शकुन्तलायाः प्रस्थाने गमनसमये कौतुकं पारम्प


यद्यनुरागातिशयोऽस्ति तर्हि कथमेनां म स्मरति तादृग्राजाद्यस्मारकांगुलीयकप्रेषणेनापि शकुन्तलां न स्मरतीति भावः । यद्वा दुःखशीले राजानं प्रति स्मारकांगुलीयकं नेतुम सभर्थे शृंगारसानभिज्ञ इति यावत् । तपस्विजने सर्वविपयोदासीनजनविषये कः अभ्यर्थ्यते दैन्यपुरःसरं याच्यते इत्थं गते एवं प्राप्ते कर्मणियर्थः । प्रविश्येत्वादि । प्रस्थान-


१ किंणु चु अम्हेहिं ( किंनु खलु अस्माभिः ) इति क० पुo पाठः । २ करिष्यामि

इति क० पु० पाठः । ३ एतावतः इति क० पु• पाठः। ४ हला नुवर तुवर

सखि त्वरय त्वरय ) इति यः पु० पाठः ।