पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२७०

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ४]
( २५७ )
टीकाद्वयसहितम्।


गौतमी-भअवं, वैरो क्खु एसो । ण आसिसा ।[ भगवन्, वरः खल्वेषः। नाशी: ] काश्यपः-वत्से, इतः सद्योहुताग्नीन्प्रदक्षिणीकुरुष्व । ( सर्वे परिक्रामन्ति )


पि । ‘आशीरिष्टजनाशंसा’ इति तल्ल्क्षणात् । वरः खल्वेषः । नाशिष: ।


पादयंति यथा मानवशरीरे रवात्मानं शौर्यादयस्तै गुणाः तस्मात्समवयवृत्त्या वर्तमानेभ्यो गुणेभ्यः संयोगवृत्त्या वर्तमाना अलंकारा बहिरंगाः । ननु रसव्यंजकत्वे तदुत्कर्षधाराभ्यामाश्रमधर्मत्वं भवत्वलंकाराणां पुनरंगभूतशब्दार्थविषयाणां रसादिप्रतीतिशून्यकेवल शब्दार्थनिष्टानां कथमात्मधर्मत्वमिति चेदुच्यते । शरीरवृत्तिभिर्हारादिभिरात्मैवालंकार्य: । न त्वचेतनं शरीरं हारादिभिरलंकृतं शवशरीरमनौचित्वाद्धात्यावहं भवति न चेदस्य किंचिदनौचित्यादात्मैवालंकार्य: अहमलंकृत इत्यभिमानदर्शनाच्च । ननु यत्र रसो नास्ति तत्र किमलंकाराणां कृत्वमित्यत्राह-यत्र चित्रकाव्ये स्फुटप्रतीतिको रसो नास्ति तत्र चित्रफणितिमात्रविश्रान्तः । यथा चित्रवर्तिनो राजादेरलंकाराः रसस्य सत्वेsपि कदाचिदलंकाराणामनुपयोग इत्युक्त्वात् । तस्मादलंकारोपकृतसौंदर्यैस्वीकारमंतरेणापि रसः सहृदयचमत्कारी भवति । विद्यमानरससंबंधीकरणेन स्वतंत्रवृत्या वर्तमानाः पुनरलंकाराःस्वामिनि विरुद्धवृत्तयो भृत्या इव द्वेष्या भवति । अलंकाराणां पुनः सहृदयहृदयचमत्कारित्वं रसानुवतर्ननेवैति सर्वं निरवद्यम् । अथवा तेषां गुणालंकाराणां शब्दार्थगतत्वेन व्यपदेश उपचारेणेति प्रतिपादयति । “ एषां शब्दार्थयोवृर्तिर्गुणवृत्त्यैव संमता " इति । अलंकारस्वरूपमुक्तम् । भअवमित्यादि । भगवन् वरौ खल्वेतौ नाशिषौ। एताविति द्विवचनेन भर्तुर्बहुमता भव सम्राज्यं पुत्रमाप्नुहीत्येतद्वयं गृह्यते । वरौ वरकल्पावघवचनेनाशीषौ वमेधवचनेनाशीपौ नतु प्रियभाषणे । ‘ आशीरुरगदंष्ट्रायां प्रियवाक्याभिलापयोः ।” इति यादव: । वरकल्पावित्यनेन यथा महता तपसा परितुष्टव्रह्मादिभिर्दत्तवरस्वमोघ: सन्नविद्यमानमपीप्सितार्थं प्रयच्छति तद्वकाश्यपवाक्यमपीति यावत् । नाशिषावित्यनेन स्वानुग्रहाः फलंतु वा न वा महास्नेहात्सर्वे जना आशी: प्रदानं कुर्वन्ति । वरप्रदाने कतिचिदेव

माहात्म्यवंतः प्रभवंत्यिर्थः । भर्तुर्बहुमता भव सम्राज्यं पुत्रमाप्नुहीति काश्यप:

१ वरा उएदे आलिसा ( वगै खल्वैतौ नाशिपौ ) इति क० पु० पाठ०१

२ एहि इत्यधिकं ई० पू० ।।