पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
( २७० )
[ चतुर्थः
अभिज्ञानशाकुन्तलम् ।


 अनसूया-सहि, मा एव्वं मन्तेहि ।[ सखि, मैवं मन्त्रय ]

एसा वि पिएण विणा गमेइ रअणिं विसाअदीहअरं ।
गरुअं पि विरहदुक्खं आसाबन्धो सहावेधि ॥ १६ ॥

[एषापि प्रियेण विना गमयति रजनीं विषाददीर्घ तराम् । गुर्वपि विरहदुःखमाशाबन्धः साहयति ]  काश्यपः-शार्ङ्गरव, इति त्वया मद्वचनात्स राजा शकुन्तलां पुरस्कृत्य वक्तव्यः ।

 शार्ङ्गरवः--आज्ञापयतु भवान् ।


तम् । प्रशस्तं युक्तं युक्तरूपम् । पश्य । नलिनीपत्रान्तरितमपि सहचर मपश्यन्त्यातुरा चक्रवाक्यारौति दुष्करमहं करोमीति । एतावद्दिनं भर्त्रा विना स्थितास्मीति भावः । सखि, एवं मा मा मन्त्रय। एषेति । गाथा । एषा चक्रवाकी क्षणमपि तेन विना तिष्ठन्ती । सापीत्यपिशब्दार्थः । न नाथो न कान्तोऽपि तु प्रियस्तेनापि नागमयत्येव नापि मध्ये रजनीयवि च्छेदो नापि तस्याः कथाशोच्यत्वमिति भावः । रञ्जयति लोकानिति रजनीमात्रम् । अपि तु विषादेन दुःखेन दीर्घतराम् । अथ च विषादो येषां ते विषादा विरहिणः । अर्शआद्यच् । तेषां दीर्घा केवलं न । दीर्घतराम पीति पञ्चसु स्थानेष्वपिर्योज्यः ।गुर्वपि विरहदुःखमाशाबन्धः साहयति ।


चितमिति यावत् । युवतिकृत्यं न भवतीति भावः । करोमि अनुतिष्ठामि । स्ववश- गेन्द्रियगणा जीवामीत्यर्थः । प्रियस्य चिरविश्लेषेण मरणे समुचिते सति स्वयं तद्विपरीत- मेव करोमीति भावः । मैवमिति । एवमिति उक्तनिर्वेदवचनं मेति प्रतिषेधे । कदापि न वदेत्यर्थः । एसेति । एषा क्षणमपि प्रियविश्लेषासहनशीला तादृश्येषा चक्रवाकीति यावत्। प्रियेण कांतेन यद्दर्शनादर्शने एव जीवितमरणयो हेतू तत्रैव प्रियशब्दप्रयोगः क्रियत इति महाकवीनां संकेतः । तादृशप्रियेण विना प्रियसंसर्गमन्तरेणापि रजनीं चन्द्रातपमलयमारु तादिसन्निधानेनाखंडितमदनप्रचुराद्यूनोर्बहुविधक्रीडोचितसमयां निशामित्यर्थः । गमयति बुद्धिपूर्वकं प्रत्यहं नयति न तु दैवात्कदाचित्कप्रियसंसर्गशून्यां रजनीं गमयतीत्यर्थः। दीर्घतरं बहुकालव्यापकं विरहिजनासह्यषडृतुव्यापकमपीत्यर्थः । गुरुकं प्रमाणधिकं स्मृतिगुणोद्वेगादिक्रमेण मरणांतफलकमपीत्यर्थः । विरहदुःखम् इष्टजनविप्रयोगजनितदुः खम् आशाबंधः प्रियसमागमप्रत्याशा सहयति मर्षयति । तथा मेघसंदेशे “ आशाबंधः