पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः ५]
( २९१ )
टीकाद्वयसहितम्।

टीकाहयसहितम् । (२९१) सावधानेन मया । शक्तनापीत्यर्थः । राज्ञोऽवरोधगृहेष्वन्तःपुरेष्वाचार इति रक्षाधिकारिणा वेत्रयष्टिहीतव्येत्याचाराद्या वेत्रयष्टिर्गृहीता बहुतिथे काले ह्यायुर्लक्षणे गते । वहुपूगगणसंघस्य तियुक्' इति तियुक् ! मम सैव वेत्र- यष्टिरवलम्बनार्थी शरीरावलम्वप्रयोजनजाता । अर्थन सह नित्यसमासः स्त्रीलिङ्गता चेति समासः स्त्रीलिङ्गता च । कीदृशो मम । प्रस्थाने गमना- रम्भे विरूवा गतिर्गमनक्रिया यस्य । अत्र पूर्वार्थ उक्तनिमित्ता विभावना। असक्तत्वस्य प्रसिद्ध कारणस्य निषेधोऽवहितेनति तद्विरुद्धमुखेनोक्तः । नि: मित्तं चाचार इत्युक्तम् । उत्तरार्धे वार्धकगमनलक्षणकार्यस्यारम्भे वेत्रयष्टे: सहायतोपादानात्समाहितम् । ' कार्यारम्भे सहायाप्तिः । इति तल्लक्षणात् ! अत्र प्रस्थानगतिशब्दयोरन्यतराग्रहणे विह्वलत्वं मनोगतमपि प्रतीयत इत्युभयग्रहणम् ! गतिशब्दस्य ज्ञानार्थत्वादपि । वृद्धस्य विक्लवगतः । इति वा पठनीयम् । एवमवरोधनियोगकालेन तदष्यर्थपौनरुकत्यं परिहरणी- यम् | त्यतायेति हितेहीतति गृहीगृहेति गतेगत इति छेकवृत्ति अत्यनुप्रासाः। आचारः कुलधर्मः इत्लवाहितेन आप्तेः शिक्षितेन मया अबरोधगृहेषु अंतःपुरगृहेषु । बहुवचनेन राज्ञो बहुवल्लभतया तत्तत्समस्तयुवतिगृहद्धाराणां स्वस्यत्र संरक्षणाधिकारः सूच्यते । तेन च राज्ञः स्वकीयविश्वासपात्रता प्रकाश्यते । वहुतिथे बहुसंख्यापूरके काले शैशवकौमारयौवनादिसमये गते क्योबलात् शुद्धान्तगृहद्वारसंरक्षणविभवकृत्यैरनायासेन नीते सति । अनेन चिरादारभ्य राजगृहावस्यानात् । " शीलं संवसता ज्ञेयं तच्च कालेन भूयसा " इति वचनात् । राजचित्तवृत्त्यभिज्ञतया विश्वस्तया च राज्ञोऽन्तःपुर- विहरणाद्यचितानुचितसमयेऽपि स्वस्य प्रवेशनिवेशनादावनगलत्वं चोत्सते । तेन कण्व- शिष्यागमननिवेदने स्वस्यावसरानपेक्षित्वं ध्वनितमिति भावः । ममेत्येकवचनेन शुद्धान्त: गृहपालनकृत्ये स्वस्यैव प्रेष्यप्रेषकत्वं च ध्वन्यते । न त्वितराधिकारस्येवान्यद्वारा कत्यकरण- मिति भावः । किंच ममेत्येकवचनेन स्वस्य कलत्रपुत्रशून्यत्वं च प्रकाश्यते । खेति । या पूर्व राजद्वारनिवारणसामग्रीकतया गृहीता सेति यावत् । अनेन सार्वकालिकवेत्रधारणेन राजगृह एव जन्मक्षेपात् इतराधिकारानियुक्ततया कदापि विश्रामाभावो गम्यते । प्रस्थानविक्लवगतेः प्रस्थाने संचारे विल्लवा विह्वला गतिर्गमनं यस्य स तथोक्तः । तस्या- वलंबनार्थमाधाराय जायत इति यावत् । अत्र कंचुकी यस्य तत्त्वज्ञानोपजनितनिवेद एव शांतरसस्य स्थायी भावः । अत एव निर्वेदस्य प्रायः - संचारिषु प्रथममुपादनं सर्वैराचार्यैरकार । संचारिणामपि कदाचित् स्थायिता भवति । स्थायिनामपि कदाचित् संचारिता भवति । यथा वीररसस्य धृतिः स्थायी भवति । स एवं शृंगाररसस्य संचारी निर्वेदस्य यदा शांतरसस्थायित्वं तदा रोमोगमानंदाश्रुस्तंभा- दिमिरमिनयो योज्यः । तस्यैव यदा विप्रलंभांगता तदा दैन्यस्वेदश्रमवैवर्यादिभि-