पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३०५

एतत् पृष्ठम् परिष्कृतम् अस्ति
( २९२ )
[ पंचमः
अभिज्ञानशाकुन्तलम् ।


भोः, कामं धर्मकार्यमनतिपात्यं देवस्य । तथापीदानीमेवधर्मा सनादुत्थिताय पुनरुपरोधकारि कण्वशिष्यागमनमस्मै नोत्सहे निवेदितुम् । अथवाविश्रमोऽयं लोकतन्त्राधिकारः। कुतः।

भानुः सकृद्युक्ततुरङ्ग एव
 रात्रिंदिवं गन्धवहः प्रयाति ।
शेषः सदैवाहितभूमिभारः
 षष्ठांशवृत्तेरपि धर्म एषः ॥ ४ ॥


वृत्तमनंतरोक्तम् । काममिति प्रकाशानुमतौ |अनतिपात्यमनतिक्रमणीयम् । न विद्यते विश्रमो यस्य सोऽविश्रमः । लोके भुवने तन्त्राधिकारः प्रधना धिकारः । विश्रान्तिरहित इत्यर्थः । ‘लोकस्तु भुवने जने’ ‘तंत्रं प्रधाने सिद्धान्ते’ इयमरः । ‘नोदात्तोपदेशस्य मान्तस्यानाचमेः’ इत्यविश्रमपदे वृद्ध्ययभावः ! भानुरिति । भानुः सूर्यः सकृदेकवारमेव युक्ता योजितास्तुरङ्गा येन सः। एतेन तुरङ्गमात्रयोजनेऽप्यस्याविश्रान्तिर्ध्वनिता । एतादृश एवास्त इति शेषः । यस्य तुरङ्गयोजने विश्रान्त्यभावस्तस्यान्यकार्येऽवि श्रान्तिः किमु वक्तव्येत्यविश्रान्तगमनं ध्वन्यते । केचिद्रात्रिंदिवं याती- त्यत्रापि योजयन्ति तन्न सम्यक्। यतः प्रतिवस्तूपमायां प्रतिवाक्यसामा न्यधर्मस्य भिन्नपदोपादानत्वमपेक्ष्यते तद्धीयेत । किं चैतद्विशेषणोपादानं व्यर्थं स्यात् । भानू रात्रिदिवं प्रयतत्येतावतैवाभिमतार्थसिद्धेः प्रक्रमम ङ्गश्चापद्येत । अग्रिमयोर्विशेषणानुपादानात् । गन्धवहो वायुरावहप्रव हादी रात्रिंदिवं प्रयाति । “ अचतुर–ः इति निपातनाद्रात्रिंदिवमिति सिद्धम् । शेषोऽनन्तः सदैव सर्वदाहितभूमिभारो धृतवसुंधराभारः । अस्तीति शेषः । सामान्यक्रियानिर्देशादध्याहारदोषाभावः । लट्प्रत्ययो नित्यवृत्तत्वं द्योतयति । प्रजाभिरुपार्जितस्य द्रव्यस्य यः षष्ठोंऽशः स


रभिनयः। भो इत्यादि । धर्मकार्यं शिष्टजनागमनप्रयोजनश्रवणकरणादिकं कामं यद्यपि अनतिपात्यम् । अनुल्लंघनीयम् । लोकतंत्राधिकारः लोकानां जनानां तंत्रः प्रयोगः रक्षा- कर्म तस्मिन्नधिकारो योगः अविश्रमः विश्रान्तिरहितः | कुतः प्रश्ने । भानुरिति । भानुः सूर्यः सकृदेकवारमेव युक्ततुरंग: सन्नद्धाश्वः । राज्ञः सूर्यसादृश्यकथनेन भानोर्यथा चक्रवाला- वधितमोनिर्हरणशक्तिमत्वं तथा दुष्यन्तस्यापि जनानामज्ञानजनितामार्गप्रवर्तननिवारकत्वेन


१ खलु इत्यधिकं क्व० पु० । २ निवेदयितुं इति क्व० पुo पाठः ।।