पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
( २९४ )
[ पञ्चमः
अभिज्ञानशाकुन्तलम् ।


 ( उपगम्य ) जयतु जयतु देवः। एते खलु हिमगिरेरुपत्यकारण्य वासिनः काश्यपसंदेशमादाय सस्त्रीकस्तपस्विनः संप्राप्ताः। श्रुत्वा देवः प्रमाणम् ।

 राजा--( सादरम् ) किं काश्यपसंदेशहारिणः ।

 कंचुकी--अथ किम् ।

 राजा--तेन हि मद्वचनाद्विज्ञाप्यतामुपाध्यायः सोमरातः ।

अमूनाश्रमवासिनः श्रौतेन विधिना सत्कृत्य स्वयमेव प्रवेशयितुम र्हसीति । अहमप्यत्र तपस्विदर्शनोचिते प्रदेशे स्थितः प्रति- पालयामि ।


विरोधः स्यात् । एते क्लान्तमनस इति वक्ष्यमाणेन राजवचनेन विरोधा पत्तिश्च । हिमगिरेर्हिमाचलस्य । क्वचित् ‘ हिमवतो गिरेः ? इति पाठः । तत्र हिमं विद्यते यस्मिन्निति यैगिकत्वमङ्गीकृत्य तेन च तन्निवासिनां दुष्करतपश्चरणं तेन गौरवातिशयो द्योत्यत इति परिहर्तव्यमर्थपौनरुक्त्यम् उपत्यकारण्यं पर्वतासन्नभूमिवनं तद्वासिनः 1 < उपत्यकाद्रेरासन्ना भूमिः ’ इत्यमरः । सोमरात इत्युपाध्यायनाम । श्रौतेन वेदोक्तेन । सत्कृत्य पूजयित्वा । स्वयमेवेत्यनेन गौरवातिशयो द्योत्यते । वेत्रवती प्रतिहारी नाम । द्वारदेशस्थितायास्तस्या राज्ञोऽपि तत्रैव संनिधानादप्रवेशः । प्रतीहारीलक्षणं मातृगुप्ताचार्यैरुक्तम्--‘ संधिविग्रहसंबद्धं नानाकार्यसमु-


अंतःपुरविहरणादिना चित्तं सुखं भवतीति भावः । अत्र दृष्टान्तमाह--यूथानीत्यादिना । यूथानि गजसमूहान् संचार्य तत्तदभीष्टाहारादिक्रीडासु व्यापार्य दिवा मध्याह्ने रविप्रतप्तो द्विपेन्द्रः शीतं शैत्यजनकं स्थानं वृक्षच्छायादिकम् । अत्र विविक्तं निषेवत इति मध्याह्नकालांतःपुरविहरणकथनाद्राज्ञः स्नानदेवपूजाहारादिकरणेन सुस्थचित्ततया आगामिऋषिभिः समं संभाषणादिकं कर्तुमासायमवकाशद्योतनार्थं शकुन्तलायाः पूर्वानुभूतमुखकरचरणादिरूपलावण्यादेः सम्यक् प्रदर्शनार्थं चेत्यवगंतव्यम् । तेन शकुन्तलारूपलावण्यादेरकृत्रिममनोहरत्वं ध्वन्यते । रात्रौ हि मण्डनादिसंस्कारजनित कृत्रिमरूपलावण्यादेरेव सम्यक् प्रदर्शनमिति भावः । उपगम्य उपसर्प्य प्रमाणम्


१ हिमवद्गिरेः इति क्व० पु• पाठः ।२ उच्यताम् इति क्व• पु० पाठः। ३ अर्हसि इति ॥• क्व० पु० पाठः । ४ एतान् तपस्विजनसंदर्शनयोग्ये देशे इति क्व० पु० पाठः।।